SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ १०२ व्युत्पत्तिवादः [ कारके च्छिन्नावच्छेदकतानिरूपितावच्छेदकतावच्छेदकत्वसम्बन्धेन शाब्दबोधे दण्डत्वादिभेदस्यापि पृथक्कारणत्वं कल्पनीयम् । अवच्छेदकतायां निरवच्छिन्नत्वनिवेशोऽपि पूर्ववद्बोध्यः । .. वस्तुतस्तु तद्धर्मान्यवृत्तिविषयतासम्बन्धेन ज्ञानं प्रति तद्धर्मभेदत्वेन हेतुता कल्प्यते लाघवात्। एवं च घटत्वाद्यवच्छिन्नप्रकारतानिरूपितविशेष्यतावच्छेदकतासम्बन्धेन शाब्दबोधं प्रति घटत्वाद्यन्यवृत्तिविषयतासम्बन्धेन ज्ञानत्वाद्यवच्छिन्नस्य व्यापकतया घटत्वादौ तादृशविषयतासम्बन्धेन ज्ञानत्वावच्छिनोत्पादकसामग्रीविरहेण न तत्र तादृशविशेष्यतावच्छेकतासम्बन्धेन शाब्दबोधापत्तिः। एवं च षटवान् घट्वानित्यादि वाक्यस्थलीयशाब्दबोधवारणानुरोधेन धम्मितावच्छेदकतावच्छेदकादिनिष्ठप्रत्यास स्यावच्छेदकत्वस्य निरूपकः शाब्दबोधः प्रमेयवद्वान् दण्डवानितिवाक्यान्न स्याद्दण्डत्वे दण्डत्वभेदाभावादत आह-प्रवच्छेदकतायां निरवच्छिनत्वमित्यादि । प्रथमावच्छेदकतायां चरमावच्छेदकतायाञ्चेत्यर्थः । अनेककार्यकारणभावकल्पनायां गौरवादाह-वस्तुतस्विति। घटत्वभिन्नवृत्तिविषयतासम्बन्धेन ज्ञानं घटत्वभिन्ने एव भवति । तत्र घटत्वभेदोऽप्यस्तीति घटत्वभेदस्य तादशसम्बन्धेन ज्ञानं प्रति कारणत्वं नानुपपन्नमेवं पटत्वान्यवृत्तिविषयतासम्बन्धेन ज्ञानं प्रति पटत्वभेदः कारणम् । तच्च ज्ञानं घटत्वावच्छिन्नाभेदसम्बन्धावच्छिन्नप्रकारतानिरूपितविशेष्यतावच्छेदकतासम्बन्धेन शाब्दबोधं प्रति व्यापकं यतो घटो द्रव्यमित्यादिवाक्याद्रव्यत्वादौ घटत्वभिन्ने एव स बोधो भवति तत्र घटत्वान्यवृत्तिविषयतासम्बन्धेन ज्ञानं वर्त्तत एव । ततश्च व्याप्यकार्ये व्यापकस्य कारणमपेध्यत इति निपमात् तादृशशाब्दबोधे घटत्वभेदस्यापेक्षणान्न घटो घट इति वाक्याद्घटत्वे स बोधः । न च जातिमान् घट इति वाक्यात् घटत्वेऽपि जातित्वेन घटत्वनिष्ठा
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy