________________
प्रथमा ] जयाऽलङ्कृतः
१०३ त्या करणत्वान्तरमपि न कल्प्यते । एवमुद्देश्यतावच्छेदकविधेययोरैक्येन एको द्वावित्यादिवाक्यादेकत्वद्वित्वाद्यवच्छिन्ने एकत्वद्वित्वादीनां भेदान्वयबोधानुदयात, एकद्वित्वत्वाद्यवच्छिन्नसमवायादिसंसर्गावच्छिन्नप्रकारतानिरूपितविशेष्यतानिरूपितसमवायादिसंसर्गावच्छिन्नावच्छेदकतावच्छेदकत्वादिसम्बन्धेन शाब्दबुद्धौ एकत्वत्वादिभेदस्य । एवं कर्म गच्छतीत्यादौ च कर्मत्वत्वाद्यवच्छिन्ने आधेयतासम्बन्धेन तद्वतोऽन्वयबोधवारणाय कर्म
वच्छेदकताकाभेदसम्बन्धावच्छिन्नप्रकारतानिरूपितविशेष्यतावच्छेदकतासम्बन्धेन शाब्दबोधोत्पत्तेन घटत्वावच्छिन्नप्रकारताकोक्तशाब्दबोधो घटत्वान्यवृत्तिविषयतासम्बन्धेन ज्ञानव्याप्यमिति वाच्यम् । व्याप्यशरीरे निरवच्छिच्छिन्नावच्छेदकतायाः प्रवेशे नादोषात् । एवं व्याप्यशरीरे घटत्वेतरधर्मानवच्छिन्नत्वमपि प्रकारतायां देयं तेन नीलघटो घट इति वाक्याद्घटत्वे जायमानशाब्दबोधीयघटत्व नेष्ठावच्छेदकतायां निरवच्छिन्नत्वेऽपि न क्षतिः । प्रकारतायां घटत्वेतरनीलत्वेनावच्छेदात् । एवमेव जातित्वावच्छिन्नावच्छेदकताकप्रकारतानिरूपितविशेष्यतावच्छेदकतावच्छेदकतासम्बन्धेन शाब्दबोधः जातित्वाभिन्ने एव भवति । एवं दण्डत्वावच्छिन्नदण्डनिष्ठावच्छेदकतानिरूपितसंय्योगनिष्टावच्छेदकतानिरूपिताभेदसम्बन्धावच्छिन्नप्रकारतानिरूपितविशेष्यतावच्छेदकतावच्छेदकतावच्छेदकतासम्बन्धेन दण्डत्वभिन्ने एव शाब्दबोधो भवतीति तयोरपि व्यापके जातित्वान्यवत्तिविषयतासम्बन्धेन दण्डत्वान्यवृत्तिविषयतासम्बन्धेन वर्तमाने ज्ञाने इति तयोरपि शाब्दबोधयोर्जातित्वभेददण्डत्वभेदयोः कारणत्वात् जातित्वे दण्डत्वे च न तौ शाब्द
'अनुमितिवारणाय धर्मितावच्छेदकतासम्बन्धनानुमितौ विधेयभेदस्येत्यधिकः पाठो प्राचीनहस्तलिखितपुस्तके ।