SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ त्वत्वाद्यवच्छिन्नावच्छेदकताकाधेयतासम्बन्धावच्छिन्नप्रकारतानि- ' रूपितधर्मितावच्छेदकतासम्बन्धेन शाब्दबोधे कर्मत्वत्वादिभेदस्य घटो न, घट इत्याद्यनुमितेः शाब्दबोधस्य च वारणाय घटत्वावच्छिन्नभेदप्रकारतानिरूपितधम्मितावच्छेदकतासम्बन्धेनानुमितौ शाब्दबोधे च घटत्वादिभेदस्य हेतुत्वान्तरकल्पनमनादेयमेव । तद्धमभेदस्यैकैककारणतयैव सकलातिप्रसङ्गवारणसंभवादिति कृतं पल्लवितेन। बोधौ जातिमान् जातिमान् दण्डवान् दण्डडवानिति वाक्याभ्यामिति बोध्यम् । एवमेव एकः द्वौ घटो न घटः इत्यतोऽपि एकत्वावच्छिन्ने एकत्वस्य द्वित्वावच्छिन्ने द्वित्वस्य घटत्वावच्छिन्ने। घटभेदस्य चान्वयविषयकावनुमितिशाब्दबोधौ न यतः एकत्वत्वावच्छिन्नप्रकारतानिरूपितविशेष्यतावच्छेदकतावच्छेदकतासम्बन्धेन एवं द्वित्वत्वावच्छिन्नप्रकारताघटितोक्तसम्बन्धेन घटत्वावच्छिन्नप्रतियोगिताकभेदत्वावच्छिन्नप्रतियोगिताकाभावानुयोगितावच्छेदकतासम्बन्धेन शाब्दबोधोऽनुमितिर्वा एकत्वत्वद्वित्वत्वघटत्वेभ्यो भिन्नष्वेव भवति । तयोरपि एकत्वत्वाद्यन्यवृत्तिविषयतासम्बन्धेन ज्ञानं व्यापकमिति तत्कारणस्यैकत्वत्वादिभेदस्य तत्रापेक्षितत्वेन तदभावादेवैकत्वत्वादिषु तयोरभावोपपत्तावेकत्वत्वादिभेदस्य पृथक् कारणत्वाकल्पनेन लाघवम् । न च नमोऽभावे येन सम्बन्धेन यद्धविच्छेदेन यद्वत्ता यद्वाक्येन प्रतीयते नघटितेन तेन वाक्येन तत्सम्बन्धावच्छिन्नतन्निष्ठप्रतियोगिताकाभावस्तद्धविच्छेदेन प्रत्याय्यत इति नियमात् घटो घट इति वाक्यात् स्वरूपसम्बन्धेन घटाभेदवत्ताया घटत्वावच्छेदनाप्रतीतेस्तदवच्छेदेन घटाभेदाभावप्रतीत्यप्रसक्तेः कथं तत्कारणकल्पनं लाघवमिति वाच्यम् । येन सम्बन्धेन यद्धविच्छेदेन यद्वत्ता प्रीतौ साकाङ्क्ष यद्वाक्यं तेन वाक्येन नघटितेन तेन सम्बन्धेन तदवच्छेदेन तदभावः प्रत्याय्यत इत्येव नियमेन
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy