SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ त्यासत्त्या हेतुत्वोपगमात् । अथैवमपि यत्र राजा पुरुष इत्यत्र पुरुषपदाधीनपुरुषोपस्थितौ प्रत्ययवशात्कश्चित्प्रत्ययार्थोऽपि विषयीभूतः तत्र प्रत्ययजन्यतथाविधसमूहालम्बनोपस्थितेर्विशेष्यतासम्बन्धेन पुरुषेऽपि सत्त्वात्तस्य राजप्रकारकान्वयबोधे विशेष्यतया भानापत्तिदुर्वारैव। न च प्रत्ययजन्यतावच्छेदकीभूतविशेष्यतासम्बन्धेनोपस्थितेर्हेतुत्वोपगमान्नानुपपत्तिः। तादृशसमूहालम्बनोपस्थितिनिरूपितपुरुषनिष्ठविशेष्यताया नाम्न एव जन्यतावच्छेदकत्वादिति वाच्यम् । ज्ञानभेदेन विशेष्यताभेदे मानाभावात् । एवं च यत्र प्रत्ययाधीनस्वत्वोपस्थितिजन्यत्वस्यैव सत्त्वेन कार्य्यतावच्छेदकानाक्रान्तत्वान्न तत्र पुरुषभानानुपपत्तिः ।। ___ कार्यतावच्छेदकं विचार्य कारणकोटि विचारयति । अथैवमपोति । पुरुषेऽपि यत्र प्रत्ययजन्योपस्थितिविशेष्यतासम्बन्धेन वर्तते तत्र राजा पुरुष इति वाक्यात् पुरुषे भेदान्वयापत्तिः । पुरुषपदजन्यपुरुषोपस्थितौ प्रत्ययस्य कस्यचिच्छवणात्प्रत्ययार्थोऽपि विषयीभूतस्तादशसमूहालम्बनोपस्थितिय॑था पुरुषपदे जन्या तथा प्रत्ययपदजन्याऽपि तस्याश्च विशेष्यतासम्बन्धेन पुरुषे सत्त्वात् । यद्यपि समूहालम्बनात्मिका योपस्थितिस्तस्यां प्रत्ययपदजन्यत्वं पुरुषपदजन्यत्वञ्च तथापि प्रत्ययदजन्यतावच्छेदिका प्रत्ययार्थनिष्ठविषयतैव पुरुषपदजन्यतावच्छेदिका च पुरुषनिष्ठविषयतैव कारणतावच्छेदकसम्बन्धश्च न विशेष्यतामात्रमपि तु प्रत्ययपदजन्यतावच्छेदकीभूतविशेष्यता। एवञ्च प्रत्ययपदजन्यतावच्छेदकविशेष्यतासम्बन्धेन प्रत्ययपदजन्या सा समूहालम्बनोपस्थितिः प्रत्ययार्थे एव न पुरुषार्थ इति न तत्र राजभेदान्वय इति भावः । नाम्न एव जन्यतावच्छेदकत्वादिति । समहालम्बनोपस्थितीयपुरुषनिष्ठविषयतायाः पुरुषपदजन्यतावच्छेदकत्वमित्यर्थः । पुनरप्यापत्ति स्थापयति--ज्ञानभेदेन विशेष्यताभेद इति । अयं भाव:---
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy