________________
प्रथमा ]
जयाऽलङ्कृतः कभेदान्वयबोधे विशेष्यतया प्रत्ययार्थस्यैव भानं न तु नामार्थान्तरस्य । तत्र विशेष्यतासम्बन्धेन प्रत्ययजन्योपस्थितेरसत्त्वात्। न च सम्बन्धादेरपि नामार्थतया तत्प्रकारकान्वयबोधे पुरुषादिपदार्थस्य विशेष्यतया मानानुपपत्तिः, तत्तन्नामपदजन्यतत्तन्नामार्थप्रकारकशाब्दबोधत्वावच्छिन्नं प्रति प्रत्ययजन्योपस्थितित्वेन हेतुत्वेऽपि राजसम्बन्धः प्रमेयः राज्ञः पुरुष इत्येतादृशवाक्यद्वयजन्यवाक्यार्थद्वयान्वयबोधे पुरुषस्य राजसम्बन्धविशेष्यतया भानानुपपत्तिरिति वाच्यम् । प्रत्ययाधीनतत्तत्पदार्थोपस्थित्यजन्यतत्तत्पदार्थप्रकारकशाब्दत्वावच्छिन्नं प्रत्येव प्रत्ययजन्योपस्थितेः समानविशेष्यताप्र
सम्बन्धेन पुरुपे प्रत्ययजन्योपस्थितेरभावात् । न च सम्बन्धादेरपीति । अयम्भावः । राज्ञः पुरुष इत्यादौ राजनिरूपितस्वत्वप्रकारकपुरुषविशेष्यकशाब्दबोधो न स्यात् । स्वत्वस्यापि सम्बन्धरूपनामार्थत्वं ततश्च तनिष्ठस्वरूपसम्बन्धावच्छिपप्रकारताको विशेष्यतासम्बन्धेन पुरुषे शाब्दबोधो न स्यात्तत्र विशेष्यतासम्बन्धेन प्रत्ययजन्योपस्थितेरभावादिति । तत्तन्नामपदजन्येत्यादि । यन्नामार्थनिष्ठप्रकारताकः शाब्दबोधस्तन्नामपदजन्यस्य शाब्दबोधोऽपेक्षितः । प्रकृते सम्बन्धरूपनामार्थस्वत्वनिष्ठप्रकारताकत्वेऽपि सम्बन्धरूपनामपदजन्यत्वाभ वान्न तत्र बोधे विशेष्यतासम्बन्धेन प्रत्ययजन्योपस्थितेरपेक्षा। राजसम्बन्धः प्रमेयः राज्ञः पुरुष इत्येतादृशवाक्यद्वयजन्येति-अयं यः समहालम्बनात्मको वाक्यद्वयजन्यो बोधः सम्बन्धपदजन्यः सम्बन्धपदार्थस्वत्वप्रकारकश्चेति नत्र बोधे विशेष्यतया पुरुषस्य भानं न स्यात्तत्र प्रत्ययपदजन्योपस्थितेरभावात् । प्रत्यंयाधीनेति । तन्नामपदजन्यत्वं न देयं किन्तु प्रत्ययाधीनतदर्थोपरिपत्यजन्यो यस्तन्नामार्थप्रकारकः शाब्दबोधो विशेष्यतासम्बन्धेन तदुत्पत्तौ विशेष्यतासम्बन्धन प्रत्ययपदजन्योपस्थितिः कारणमुक्तसमूहालम्बनबोधस्य सम्बन्धरूपनामार्थस्वत्वनिष्ठप्रकारताकत्वेऽपि डस्