SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ ११२ . . व्युत्पत्तिवादः [ कारके राजादिप्रकारकान्वयबोध एव तादृशाकाङ्क्षाज्ञानस्य हेतुतया पुरुषादौ राजादिपदार्थप्रकारकान्वयबोधोत्पत्तौ तादृशाकाङ्क्षाज्ञानरूपकारणविरहस्याकिंचित्करत्वात् । - अत्र क्रेचित् नामार्थप्रकारकभेदान्वयबोधं प्रति समानविशेष्यताप्रत्यासत्त्या प्रत्ययजन्योपस्थितेर्हेतुत्वकल्पनात् नामार्थप्रकार दिविशेष्यकेत्यादि । अानुपुर्वीरूपाकाङ्क्षायाः कारणत्वस्यावश्यकत्वेऽपि भेदान्वयबुद्धित्वं न कार्य्यतावच्छेदकन्तथा सति कार्य्यतावच्छेदकस्यैक्याद्राजपदाव्यवहितोत्तरङस्पदत्वराजपदाव्यवहितोत्तराम्पदत्वादिरूपानुपूर्वीज्ञानानां नानात्वात्परस्परजन्यबोधे व्यभिचारप्रसक्त्या तद्वारणार्थं राजनिष्ठभेदसम्बन्धावच्छिन्नप्रकारतानिरूपितस्वत्वनिष्ठविशेष्यताकशाब्दबोधं प्रति राजपदाव्यवहितोत्तरङस्पदत्वरूपानुपूर्वीरूपाकाङ्क्षाज्ञानं कारणमित्येवं क्रमेणैव विशेष्यतावच्छेदकं कार्य्यतावच्छेदके निवेश्य तत्तदानुपूर्वीणां कारणत्वस्य वक्तव्यतया राजनिष्ठस्वत्वसम्बन्धावच्छिन्नप्रकारतानिरूपितपुरुषनिष्ठविशेष्यताकशाब्दबोधं प्रति कस्यचिदानुपूर्वीज्ञानस्य कारणत्वाकल्पनात्तादृशबोधे आनुपूर्वीज्ञानविरहस्याकिञ्चित्करत्वादिति भावः । ___ अन्न केचिदिति । राज्ञः राजानमित्यादौ निरूपितत्ववृत्तिसम्बन्धावच्छिनराजनिष्ठप्रकारतानिरूपितस्वत्वकर्मत्वादिनिष्ठविशेष्यताकशाब्दबुद्धित्वावच्छिन्नं प्रति ङस्प्रत्ययजन्यस्वत्वोपस्थितिरम्प्रत्ययजन्यकर्मत्वोपस्थितिः कारणमित्यादिक्रमेण विशेष्यस्य कार्यकारणकोटौ निवेशेनात्मनिष्ठप्रत्यासत्त्या कार्यकारणभावस्वीकारे गौरवात् । लाघवेन विशेष्यतासम्बन्धेन नामार्थनिष्ठभेदसम्बन्धावच्छिन्नप्रकारताकशाब्दबोधं प्रति विशेष्यतासम्बन्धेन प्रत्ययजन्योपस्थितिः कारणमित्येव विषयनिष्ठप्रत्यासत्त्या कार्यकारणभावो वक्तव्यः । तथा च न राजा पुरुष इति वाक्यात् स्वत्वसम्बन्धावच्छिन्नराजनिष्ठप्रकारतानिरूपितपुरुषनिष्ठविशेष्यताकः शाब्दबोधः विशेष्यता
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy