________________
1067
अथ राजा पुरुष इत्यादी पदार्थोपस्थित्यादिसत्त्वेन कथन्न भेदान्वयबोधः, सामग्रया कार्यजनने उक्त नियमभङ्गरूपायाः प्रयोजनक्षतैर किंचित्करत्वात्, सामग्रीसत्त्वे अवश्यं कार्यमिति नियमात् । न च तंत्र भेदान्वर बोधौपयिकाकाङ्क्षाविरहाच्छाव्दसामग्रयेवासिद्वेति वाच्यम् । समभिव्याहाररूपाकाङ्क्षायास्तत्रापि सत्त्वात् । न च तादृशाकाङ्क्षायास्तत्र सत्त्वेऽपि राजादिपदार्थप्रकारकभेदान्वयबोधे (राजादिपद प्रकारको राजादिपदाव्यवहितोत्तरङस्पदत्वादिरूपानुपूर्वीविशेषरू पाया आकाङ्क्षाया अपि प्रयोजकत्वात् । तदभावादेव न तत्र शाब्दसामग्रीति वाच्यम् । सम्बन्धादिविशेष्यक
नियममूलभूतं कार्य्यकारणभावं शङ्कासमाधानाभ्यामाह -- श्रथ राजा पुरुष इत्यादाविति । ननु नामार्थयोरभेदान्वय एवेति नियमभङ्ग इति चंदा- -- सामग्रया काय्येत्यादि । नियमः प्रयोजनं क्षतिर्हानिः । श्रकिकिरत्वात् काय बाधकत्वादित्यर्थः । सामग्रीसत्त्वे इत्यादि । सामग्रचाः कार्य्य व्याप्यत्वादित्यः । न च तत्र भेदान्वये बोधौपयिकाकाङ्क्षाविरहादिति । राजानं राज्ञा राज्ञे राज्ञ इत्यादी राजनिष्ठ कर्म्मत्वराजनिष्ठकरणत्वादीत्याकारकभेदान्वये राजानमित्याद्यानुपूर्वीज्ञानाकारणत्वाद्राजा पुरुष इत्यादौ तादृशानुपूर्व रूपाकाङ्क्षाविरहान्न शाब्दसामग्रीति भावः । समभिव्याहाररूपाकाङ्क्षाया इति । भेदान्वयबुद्धिं प्रत्यानुपूर्वीज्ञानानां परस्पराव्यभिचरितत्वे नाना कारणत्वात् प्रकारविशेष्यवाचकपदयोस्समभिव्याहाररूपाकाङ्क्षाज्ञानस्यैव कारणत्वेन तस्य च राजा पुरुष इत्यत्रापि सत्त्वादिति भावः । न च तादृशा काङ्क्षायास्तत्र सत्त्वेऽपीति । राजा कर्मत्वं राजा स्वत्व - मित्यादौ समभिव्याहाररूपाया श्राकाङ्क्षायास्सत्त्वेऽपि शाब्दबोधानुदयेन भेदान्वये आनुपूर्व्या अपि कारणत्वस्य वक्तव्यत्वेन राजपदाव्यवहितङस् - पदत्वादिरूपानुपूर्वीनाकाङ्क्षाया प्रभावान्न शाब्दबोध इति भावः । सम्बन्धा