________________
.
११०
. व्युत्पत्तिवादः
[ कारके ___परे तुतादात्म्यातिरिक्तसम्बन्धेन नामार्थयोर्नान्वयबोधः । तादात्म्यं च प्रकृते तद्वृत्तिधर्मवत्त्वम् । एवं च नीलो घट इत्यादौ स्ववृत्तिनीलत्वादिमत्त्वसम्बन्धेन घटाद्यंशे नीलपदार्थस्येव मुखं चन्द्र इत्यादौ स्ववृत्त्याह्लादकत्वादिमत्त्वसम्बन्धेन मुखादौ चन्द्रादेरन्वयबोधः तादृशार्थान्वयबोधेऽपि समानविभक्तिकत्वं तन्त्रमित्यतो नातिप्रसङ्ग इति वदन्ति ।
वाक्यादभ्युपेयो न मानस इत्यत आह--परे विति। नामार्थयो न्वयबोध इति । एतदुत्तरं नामार्थयोरभेदान्वयबोध इत्यस्यार्थ इति शेषः । एवञ्च मुखन्न चन्द्र इति विशेषदर्शनदशायामपि स्ववृत्त्याह्लादकत्ववत्वसम्बन्धेन चन्द्रविशिष्टं मुखमिति बोधोऽप्रतिबद्ध एवेति भावः । नातिप्रसङ्ग इति । नीलस्य घट इत्यादाविति शेषः । नन्वेवं चन्द्रो मुखं पद्मं मुखमित्यादौ स्ववृत्तिधर्मवत्वसम्बन्धेन चन्द्रपद्मादेर्मुखादावन्वयोपगमे प्रतियोग्यभावान्वयौ तुल्ययोगक्षेमावित्यनुरोधेन न चन्द्रो न पद्म मुखमेवेदमित्यादौ तत्सम्बन्धावच्छिन्नप्रतियोगिताकचन्द्राद्यभाव एव ना प्रतीयत स च बाधित इति तत्र बोधो न स्यादतोऽसम्मतोऽयं पक्षो भट्टाचार्य्यस्येति परे त्वित्यनेन सूचयति । स्वमते तु चन्द्रपदस्य चन्द्रसदशे लक्षणैव । उपमातो रूपके चमत्कारवैलक्षण्यन्तु यथा गङ्गातीरे घोष इत्यतो न शैत्यपावनत्वातिशयप्रतीतिरपि तु गङ्गातीरलाक्षणिकगङ्गापदाद्गङ्गातीरबोधे एव शैत्यपावनत्वातिशयप्रतीतिस्तथैवात्रापि विषयावैलक्षण्येऽपि कारणान्तरगम्यमेवेति सहृदयमात्रगम्यमिति दिक् ।
'परे त्विति–वस्तुतो न युक्तमिदमन्यथा घटवृत्तिद्रव्यत्वस्य घटेऽप्यबाधात् तेन सम्बन्धेन घटस्य पटेऽन्वयबलात् घट: पट इत्यपि प्रयोगापत्तिः । एवञ्च केचिदित्यादिमतमेव युक्तमिति गुरुचरणाः ।