________________
बोध एवेति न दोषः । एवं मुखं चन्द्र इत्यादिरूपकस्थले चन्द्रादिपदस्य चन्द्रादिसदृशलक्षणया मुखादौ चन्द्रादिसदृशाभेदान्वयबोध एव, न तु सादृश्यादिसम्बन्धेन चन्द्रादेर्मुखादावन्वय इति न तत्र व्यभिचारः ।
केचित्तु रूपकस्थले चन्द्रादिपदस्य चन्द्रादिसदृशे न लक्षणा किं तु तत्र मुख्यार्थचन्द्रादेरेवाभेद भ्रमो मुखादौ । मुखं न चन्द्र इत्यादिविशेषदर्शनदशायां च न तत्र शाब्दोऽभेदप्रत्ययः अपि तु शब्दजन्यविशकलितपदार्थोपस्थितिमूलको मानस एवाहार्थ्याभेद
भ्रम इत्याहुः ।
एवं मुखं चन्द्र इति । अत्रापि चन्द्रपदार्थस्य मुखेऽभेदान्वयस्य बाधेन स्वप्रतियोगिकसादृश्यवत्वस्य च भेदसम्बन्धत्वेन तेन सम्बन्धेनान्वये पूर्वोक्तव्युत्पत्तिविरोधेन च चन्द्राद्युपमानवाचकपदस्य चन्द्रसदृशे लक्षणया चन्द्रसदृशाभिन्नं मुखं इति बोध इति न व्युत्पत्तिविरोधः । ननु रूपकस्थलेऽपि लक्षणया सादृश्यप्रत तावुपमालङ्काराद्रूपकालङ्कार श्रालङ्कारिकसिद्धान्तसिद्धं चमत्कारवैलक्षण्यन्नोपपद्येत । विषयवैलक्षण्यस्यैव चमत्कारवैलक्षण्यप्रयोजकत्वादिति चेत्तदाह-- केचित्वित्यादि । तथा च चन्द्राभिन्नं मुखमित्यभेदान्वयबोध एवंति न व्यभिचारो न वा चमत्कारवैलक्षण्यानुपपत्तिर्विषयवैलक्षण्यस्य सत्त्वात् । ननु बाधान्नाभेदश्चन्द्रादेर्मुखादाविति ं चेत्तदाह--प्रभेदभ्रमो मुखादाविति । ननु मुखन्न चन्द्र इति विशेषदर्शने न भ्रमस्यापि सम्भव इति चेत्तदाह--न तत्र शाब्दोऽभेदभ्रम इति । समानविभक्तिकमुखचन्द्रपदजन्योपस्थितिविषययोर्मुखचन्द्रयोर्म्मानसोऽभेदभ्रमः । मानसञ्च ज्ञानं विरोधिज्ञानाप्रतिबद्ध्यमेवेति भावः । ननु मुखञ्चन्द्र इति वाक्यजन्यप्रतीतौ श्रुतोऽयमर्थश्चेतश्चमत्करोतीत्यनुभवः प्रामाणिकः । श्रुधातोश्च शाब्दबोध एवार्थस्तदनुरोधेन शाब्दाभेदप्रत्यय एव मुखञ्चन्द्र इति