SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ भक्षणादेरनुयोगितया, गुरुमते तु विध्यर्थापूर्वांशे विशेषणतयान्वितेन नअपस्थाप्याभावेन धात्वर्थभक्षणादेः प्रतियोगितयाऽन्वयेऽपि न क्षतिः । राजपुरुष इत्यादिसमासस्थले तु पुरुषादिपदार्थेन समं राजादिपदार्थस्य न भेदान्वयबोधः किन्तु तेन समं विभक्त्यन्तार्थविशिष्टलाक्षणिकराजादिपदोपस्थाप्यराजसम्बन्ध्यादेरभेदान्व गिकाभावविशिष्टं कलञ्जभक्षणमिति बोधः । बलवदनिष्टाननुबन्धित्वं बलवदनिष्टाजनकत्वम् । अत्र विशेषणस्य बलवदनिष्टा जनकत्वस्य विशेष्यस्येष्टसाधनत्वस्य चाभावप्रयुक्तो विशिष्टाभावस्तेन बलवदनिष्टजनकत्वं भक्षणे प्रतीयते नैयायिकमते अत्र धात्वर्थे नपनामार्थस्यान्वयः । गुरुमते चेति । प्रभाकरमीमांसकमते भक्षणस्य स्वप्रतियोगिकत्वसम्बन्धेन नअर्थाभावेऽन्वयो भावस्य च प्रयोज्यत्वसम्बन्धेन लिङर्थेऽपर्वे अन्वयोऽपूर्वञ्च पुण्यं तथा च कलञ्जभक्षणप्रतियोगि काभावप्रयोज्यमपूर्वमिति बोधः । नैयायिकमने कलञ्जभक्षणमनिष्टजनकं न तु तद्भक्षणाभावः पुण्यजनकः । गुरुमते कलञ्जभक्षणाभावजन्यं पुण्यं न तु कलजभक्षणमनिष्टजनकमिति प्रतीयत इति भेदः । ननु तर्हि कलञ्जभक्षणे कस्मान्न प्रवर्तते गुरुमत इति चेत्-पुण्यप्रयोजकाभावप्रतियोगित्वरूपस्य 'पुण्यप्रतिबन्धकत्वस्य भक्षणे शब्दात्प्रतीतौ पुण्यकामस्य पुण्यप्रतिबन्धके कलञ्जभक्षणे प्रवृत्त्यनुपपत्तेः । समासस्थले विशेषणवाचकपदप्रकृतिकलुप्तविभक्तेरनुसन्धानं विनैव शाब्दबोधोत्पत्त्या स्वत्वसम्बन्धेन राजरूपनामार्थस्यैव पुरुषरूपनामार्थेऽन्वयो वाच्यः । स चोक्तनियमविरुद्ध इत्यत आह--राजपुरुष इत्यादिसमासस्थले स्विति । तत्र राजादिपदस्य विशेषण वाचकस्य षष्ठयर्थस्वत्वादिविशिष्टे लक्षणा । तस्य चाभेदेनैव पुरुषाद्युत्तरपदार्थेऽन्वय इति नोक्तव्युत्पत्तिविरोधः । एतदेवाह-किन्त्वित्यादिना।
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy