SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ तण्डुलचैत्रादेरन्वयायोधाग्निपातातिरिक्तप्रातिपदिकार्थयोः क्रियातादृशप्रातिपदिकार्थयोश्च भेदेन साक्षादन्वयबोधस्याव्युत्पन्नत्वात् । विभक्त्यर्थमन्तराकृत्य तयोरप्यन्वयबोधात्साक्षादिति निपातातिरिक्तत्वादिविशेपरसात् भूतले न घट: घटो न पट इत्यादौ घटादेर्नर्थाभावेन मुखं चन्द्र इवेत्यादौ मुखचन्द्रादीनामिवार्थसादृश्यादिना न कलशं भदायेदित्यादौ नैयायिकमते नअपस्थाप्येन बलवदनिष्टाननुबन्धित्वविशिष्टेष्टसाधनत्वादिरूपविध्यर्थाभावेन धात्वर्थ म्बन्धविषयक एव । रा३: पुरुष इत्यादौ विभक्त्यर्थस्वत्वद्वारा राजरूपप्रातिपदिकार्थस्य पुरुषरूपप्रातिपदिकार्थेऽन्वयस्येष्टत्वादिति भावः। निपातार्थे प्रातिपदिकार्थान्वयस्थलमाह --भूतले न घट इत्यादि । नअर्थो भावे घटस्य स्वप्रतियोगिकत्वसम्बन्धनान्वयस्तथा च घटाभावो भूतलवृत्तिरिति बोधः । यदि च प्रतियोग्यभावा वय इति न्यायेन नोऽसत्त्वे यत्र येन यद्वत्ता प्रतीयते यादृश्यवाक्येन तादृशवाक्येन नघटितेन तत्र तेन तदभावस्यैव प्रत्यायनादुक्तबोधो न युक्तः कि तु भूतलवृत्तित्वाभाववान् घट इत्येव युक्तः । भूतले घट इत्यतो भूतलवृत्तित्ववान् घट इत्येव बोधात् तथाऽपि निपातार्थप्रातिपदिकार्थयोरन्वयो जात एवेति बोध्यम् । घटो न पट इत्यादाविति--नार्थे भेदे घटस्य स्वप्रतियोगिकत्वसम्बन्धेन भेदस्य च पटे स्वरूपसम्बन्धेनान्वयः । मुखं चन्द्र इवेत्यादाविति । इवार्थसादृश्ये स्वप्रतियोगिकत्वसम्बन्धेन चन्द्रस्य मुखे स्वरूपसम्बन्धेन सादृश्यान्वयः । निपात तिरिक्तत्वनिवेशाभावे नञि वयोरपि नामत्वात्तदर्थे तदर्थस्य वा भेदान्वयर चन्द्रादेन स्यादिति भावः । न कलज भक्षयेदित्यादादिति । नबर्थोऽभावः तस्मिन् लिङर्थस्य बलवदनिष्टाननुबन्धित्वविशिष्टेष्टसाधनत्वरूपस्य स्वप्रतियोगिकत्वसम्बन्धेनान्वयेऽभावस्य च स्वरूपसम्बन्धेन भक्षणेऽन्वयः । तथा च बलवदनिष्टाननुबन्धित्वविशिष्टेष्टसाधनत्वप्रतियो
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy