SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ व्युत्पत्तिवादः [ कारके .. भेदान्वयबोधश्च प्रातिपदिकार्थधात्वर्थयोः प्रत्ययार्थेन क्वचिनिपातार्थेन च सममेव जायते न त्वन्येन । सत्यपि पदार्थोपस्थितियोग्यताज्ञानादिरूपकारणकलापे राजा पुरुष: भूतलं घट इत्यादौ पुरुषाद्यंशे राजभूतलादेः स्वत्वाधेयतासम्बन्धेन तण्डुलः पचति चैत्रः पच्यते इत्यादौ कर्मत्वकर्तृत्वादिसम्बधेन तण्डुलचैत्रादौ पाकादेः स्वकर्मकत्वस्वकर्तृकत्वादिसम्बन्धेन पाकाद्यंशे वा शेऽधिकावगाहिशाब्दबोधस्येष्टतया तत्र दोषवारणाय व्याप्यदले प्रकारताविशेष्यतयोः स्थाने विधेयतोद्देश्यतयोः प्रवेशः कार्य । ___ अभेदान्वयविचारं समाप्य भेदान्वयविचारः प्रारभ्यते-भेदान्वयबोधश्चेत्यादिना। भेदान्वयेत्यस्याभेदभिन्नसम्बन्धबोध इत्यर्थः । प्रातिपदिकार्थस्य धात्वर्थस्य च प्रत्ययार्थे निपातार्थे एवाभेदभिन्नसम्बन्धेनान्वय इत्यर्थः। प्रातिपदिकपदप्रयोज्यधातुपदप्रयोज्ययोरभेदातिरिक्तसम्बन्धावच्छिनप्रकारतयोः प्रत्ययनिपातान्यतरपदप्रयोज्यविशेष्यतानिरूपितत्वनियम इति पर्य्यवसितोऽर्थः । नियमस्वीकारे हेतुमाह--राजा पुरुष इत्यादि । राजा पुरुषः भूतलं घट इति वाक्यात् स्वत्वसम्बन्धेन राजविशिष्टः पुरुषः आधेयत्वसम्बन्धेन भूतलविशिष्टो घट इति बोधाभावः । उक्तनियमे हेतुरिति भावः । प्रातिपदिकार्थस्य प्रातिपदिकार्थेऽभेदभिन्नसम्बन्धेनान्वये दोषमुक्त्वा धात्वर्थस्य प्रातिपदिकस्य तेन सम्बन्धेनान्वये दोष उच्यते। तण्डुलः पचतोत्यादि। न च तण्डुलगतकर्मत्वस्य चैत्रगतकर्तृत्वस्यानुक्तत्वात् तण्डुलपदचैत्रपदाद्द्वितीयातृतीययोरनुशासनादयं प्रयोगो न प्रसक्त इति वाच्यम् । प्रातिपदिकार्थं प्रति कर्मत्वकर्तृत्वयोविशेष्यतयाऽन्वयबोधतात्पर्ये एव' कर्मणि द्वितीयेत्यादिना प्रातिपदिकात् द्वितीयादेरनुशासनात् । प्रकृते च कर्मत्वकर्तृत्वयोस्संसर्गतया भानस्य प्रातिपदिकार्थस्य धात्वर्थे भेदसम्बन्धेनान्वये दोष उच्यते। स्वकर्मकत्वेत्यादिना। विभक्त्यर्थमन्तराकृत्येति । उक्तनियमः साक्षात्स
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy