SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ कुत्र चित्प्रत्ययादव लक्षणादिना पुरुषाद्युपस्थितिस्तत्र तादृशोपस्थितिनिरूपितप्रत्ययजन्यतावच्छेदकीभूतविशेष्यतात: पुरुषादिपदजन्यपुरुषाद्युपस्थितिविशेष्यताया अभिन्नतया तावताप्युक्तातिप्रसङ्गवारणासम्भवादिति चेत्-न । स्वजनकज्ञानीयप्रत्ययवृत्तिप्रकारतानिरूपितविशेष्यताविशिष्टविशेष्यतासंबन्धेनैवोपस्थितेहेतुतयोक्तसमूहालम्बनोपस्थितिनिरूपितपुरुषनिष्ठविशेष्यतायाश्च तादृशोपस्थितिजनकज्ञानीयात्ययवृत्तिप्रकारतानिरूपितविशेष्यतासामानाधिकरएयविरहान्नातिप्रसङ्ग इति वदन्ति । तदसत् । प्रत्ययत्वस्यानुगतानतिप्रसक्तस्य दुर्वचतया उक्तकार्य कुत्रचित् लक्षणादिना प्रत्ययादेव पुरुषत्वावच्छिन्नोपस्थितिस्तत्र प्रत्ययपदजन्यतावच्छेदकीभूता पुरुषत्वावच्छिन्ना विशेष्यता सा निरुक्तसमूहालम्बनोपस्थितीयपुरुषत्वावच्छिन्ना विशेष्यताऽवच्छेदकैक्यादेकैव तन्निरूपकोपस्थित्यो देऽपि विषयत भेदे मानाभावात् । ततश्च प्रत्ययपदजन्यतावच्छेदकीभूता पुरुषत्वावच्छिन्ना तेन सम्बन्धेन प्रत्ययपदजन्यनिरुक्तसमूहालम्बनोपस्थितेः पुरुष सत्त्वाद्राजभेदान्वयापत्तिः । आपत्तिम्वारयति-स्वजनकज्ञानीयेत्यादिना । स्वं समूहालम्बनोपस्थितिस्तज्जनकं वृत्तिज्ञानं वाच्यत्वसम्बन्धेन पुरुषः पुरुषपदवानिति ज्ञानं प्रत्ययार्थः । वाच्यत्वसम्बन्धेन प्रत्ययवानित्याकारकञ्च तज्ज्ञानी पप्रत्ययवृत्तिप्रकारतानिरूपितविशेष्यता प्रत्ययार्थनिष्ठा तद्वैशिष्ट्यं सामान धिकरण्यसम्बन्धेन पुरुषनिष्ठविशेष्यतायामभावात् । स्वजनकज्ञानीयप्रत्ययवृत्तिप्रकारतानिरूपितविशेष्यताविशिष्टविशेष्यतासम्बन्धेन पुरुषे प्रत्ययजन्योपस्थिति स्तीति न पुरुषे राजान्क्य-इति बोध्यम् । प्रत्ययत्वस्यानुगतानतिप्रसक्तस्येति । इदमग्रे स्पष्टम् । न च प्रत्ययत्वस्यानुगतानतिप्रसक्तस्य ज्ञातुमशक्यत्वेऽपि वस्तुतो या प्रत्ययवृत्तिप्रकारता तन्निरू
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy