________________
'कारणाभविकल्पनाया असम्भवात् । राजसम्बन्धः पुरुष इत्यादौ सम्बन्धादिपदे ङस्पदत्वादिभ्रमदशायां सम्बन्धादिविशेष्यकराजादिपदार्थप्रकारकान्वयबोधानुपपत्तेः । राज्ञः पुरुष इत्यादौ ङस्पदादिषु सम्बन्धादिपदत्वभ्रमदशायां सम्बन्धांशे राजादिपदार्थप्रकारकान्वयबोधापत्तेश्च । न च प्रत्ययत्वेन ज्ञातं यत्पदं तत्पदजन्योपस्थितेः, कारणात्वादेतदोषद्वयस्य नावकाश इति वाच्यम् । राज्ञः पुरुष इत्यादौ षष्ठयादेः प्रत्ययत्वाद्यनुपस्थितिद
S
पितविशेष्यतासम्बन्धेनेत्येवमुच्यमाने दोषमाह-राजसम्बन्धः पुरुष इत्यादि । सम्बन्धपदे ङस्त्वभ्रमेऽपि तदृत्तिप्रकारतायां प्रत्ययवृत्तित्वविरहात्। ङस्पदादिषु सम्बन्धादिपदत्वभ्रमदशायामिति । तत्रं वस्तुतः प्रत्ययवृत्तिप्रकारतायास्सत्त्वादिति भावः ।
न च प्रत्ययत्वेन ज्ञातमिति । सम्बन्धपदे प्रत्ययत्वेन ज्ञाते तद्वृत्तिप्रकारतायाः प्रत्ययत्वेन ज्ञातवृत्तित्वात्। ङस्पदे सम्बन्धत्वेन ज्ञातेऽपि तद्वृत्तिप्रकारतायाः प्रत्ययत्वेन न ज्ञातवृत्तित्वाविरहादुक्तदोषव्याभाव इति बोध्यम्। प्रत्ययत्वाद्यनुपस्थितिदशायामिति । ङसादौ प्रत्ययत्वाज्ञानदशायामपि शाब्दबोधस्येष्टस्य न स्यादिति बोध्यम् । न च प्रत्ययत्वव्याप्यधर्मेण
राजसम्बन्ध इत्यादि । इदञ्चाभ्युपेत्योच्यते प्रत्ययत्वस्यानुगमेऽपि इदं दूषणद्वयं दुरुद्धरमेति भावः । वस्तुत इदं तुच्छमनुगतं भवेच्चेत् प्रत्ययत्वम् । वस्तुतो य प्रत्ययः तद्वृत्तिर्या आनुपूर्वी तत्प्रकारेण ज्ञातं यत्तज्जन्योपस्थितेः कारणत्वकल्पने यत्र तु सपदस्यैव सम्बन्धपदत्वेन ज्ञानं तत्र प्रत्ययवृत्त्यानुपूर्वीप्रकारेण ज्ञानाभावात् । यत्र च सम्बन्धपदस्य ङस्त्वेन ज्ञानन्तत्र तेन रूपेण ज्ञानात् । अतिव्याप्त्यव्याप्त्योरभावात् प्रत्ययत्वेन ज्ञानस्य चानुपयोगात् । तस्मादननुगतत्वमेव दोषो युक्त इति ।