SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ शायामपि आनुपूर्वीविशेषप्रकारकज्ञानाधीनतदर्थोपस्थितिसत्त्वे शाब्दबोधोत्पत्त्या प्रत्ययत्वप्रकारकज्ञाननिवेशासंभवात् । इदं पुनरत्र तत्त्वम् । राजा पुरुष इत्यादौ पुरुषादिविशेष्यकराजादिप्रकारकभेदान्वयबोधस्याऽप्रसिद्धयैव नापत्तिसंभवः। यत्र पष्ठयादिविभक्तेरेव स्वारसिकलक्षणया शक्तिभ्रमेण वा पुरुषाधुपस्थितिस्तत्र तद्विशेष्यकराजादिपदार्थप्रकारकभेदान्वयबोधःप्रसिद्ध एवेति चेत्तर्हि ताशबोधे तथाविधप्रकृतिप्रत्ययानुपूर्वीविशेषरूपाकाङ्क्षाज्ञानसहकृततत्तद्विभक्तिजन्यपुरुषाद्युपस्थितिघटितसामग्रथा एव तादृशवोधोत्पत्तिनियामकतया तुदभावादेव न तदापत्तिः ।, अल एच स्वत्वादिसम्बन्धन राजादिविशिष्टपुरुषादितात्पयकतदादिपघटितात् स सुन्दर इत्यादि वाक्यात्पुरुषादिविशेष्यकस्वत्वादिसंसर्गकराजादिप्रकारकशाब्दबोधस्य च प्रसिद्धया राजा पुरुषः सुन्दर इत्यादी पदार्थोपस्थितियोग्यताज्ञानादिबलात्तादृशशाब्दबोधापत्तिरित्यपि निस्तम् । स सुन्दर इत्यादिवाक्याधीनशाब्दबोधसामग्यास्तत्पदत्वादावच्छिन्नविशेष्यकसुन्दरादिपदसमभिव्याहारज्ञानसहकृततदादिपदजन्यतादृशविशिष्टार्थोपस्थितियोग्यताज्ञानादिघटिततया तदभावादेवापत्त्यभावात् । अथैत्तादृशरीत्यापत्तिवारणे राज्ञः पुरुष इत्यादौ स्वत्वादिसम्बन्धेन पुरुषादौ 4निन"" ज्ञात इत्युक्तौ न दोष इति वाच्यम् । ङस्त्वाद्यानुपूर्वीतितद्वयक्तित्वप्रकारेण ज्ञातेऽपि शाब्दबोधापनेः प्रत्ययत्वव्याप्यत्वयोरज्ञाने शाब्दबोधानापत्तेश्च । 'इत्थं काशीविश्वेश्वरसायुज्यलाभादेकादशदिनपूर्वं यावत् जयां विरचयन्त एव सन्निप तज्वराभिभूताः पितृचरणाः फाल्गुनकृष्णदशम्यां चन्द्रे नेत्रवसूरत्नभमिते (१९८२) वैक्रमाब्देऽत्रैव निवत्ताः । -...---- --
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy