________________
११८
व्युत्पत्तिवादः . [ कारके राजाद्यन्वयबोधस्वीकारेऽपि क्षतिविरहादुक्तव्युत्पत्तिनियुक्तिका। विभक्तीनां सम्बन्धादिवाचकत्वमपि नियुक्तिकम्। नीलो घट इत्यादौ विशेषणवाचकपदसमभिव्याहृतविभक्तेरिव सर्वविभक्तीनां साधुत्वमात्रार्थकत्वस्यैवोचितत्वात् । न हि तत्र तथाविधान्वयबोधोपगमे तत्स्थलीयसामग्रीवलाद्राजा पुरुष इत्यादिष्वपि तथाविधान्वयबोधप्रसङ्गः संभवति । तत्स्थलीयसामग्यः षष्ठयन्तराज पदत्वाद्यवच्छिन्नधर्मिकपुरुषादिपदसमभिव्याहाररूपाकाङ्क्षाज्ञानघटिततया तदभावादेव तत्र तादृशसामग्ऱ्या अभावात् । एवं च राजपुरुष इत्यादिसमासे राजादिपदस्य राजसम्बन्ध्यादौ लक्षणास्वीकारोऽपि व्यर्थः। तत्र भेदान्वयबोधस्वीकारेऽपि क्षतिविरहात् । नच-तत्र भेदान्वयबोधाभ्युपगमे तत्स्थलीयसामग्रीबलाद्राजा पुरुष इत्यादावपि तादृशान्वयबोधापत्तिरिति वाच्यम् । तत्स्थलीयशाब्दबोधे राजादिपदाव्यवहितोत्तरपुरुषादिपदत्वरूपानुपूर्वीविशेषज्ञानस्य हेतुतयाऽसमासस्थले पुरुषादिपदस्य विभत्त्या राजादिपदव्यवहितत्वात्तादृशानुपूर्वीविशेषज्ञानासंभवेन तत्र तादृशबोधसामग्या अप्रसिद्धः । न च प्रकृतिप्रत्यययोरानुपूर्वीविशेषरूपस्याकाङ्क्षात्वात्प्रातिपदिकद्वयाव्यवधानघटितोक्तानुपूर्वीविशेषज्ञानस्य हेतुत्वमेव निष्प्रामाणिकमिति काच्यम्। ____ भवन्मतेऽपि राजपुरुष इत्यादौ यादृशसामग्रीबलाद्राजपदार्थराजसम्बन्धिपुरुषपदार्थयोरभेदान्वयबोधस्तादृशसामग्रीवलाद्राज्ञः पुरुषः इत्यादावपि राजादिपदरय राजसम्बन्ध्यादौ लक्षणाग्रहसत्त्वे तादृशाभेदान्वयबोधप्रसङ्गवारणाय तथाविधानुपूर्वीविशेषज्ञानस्य समासजन्यबोधे हेतुताकल्पनस्यावश्यकत्वात् ।।
अस्माभिर्भेदान्वयबोध एव तादृशानुपूर्वीवि रोपज्ञानस्य हेतुतायाः कल्पनीयत्वात् । न चोभयमत एव राजसम्बन्धिनि राजपदस्य स्वारसिकलक्षणाग्रहेण राजपुरुष इत्यत्र राजसम्बन्धिपुरुष