SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ योरभेदान्वयबोधी भवति । इयांस्तु विशेषो यदस्मन्मतेऽसौ समासः पष्ठीतत्पुरुषो' भवन्मते कर्मधारय' इति । एवं च पुरुषविशेष्यकाभेदसंसर्गकराजसम्बन्धिप्रकारकबोधे राजपदाव्यवहितोत्तरवर्तिपुरुषपदत्वप्रकारकज्ञानत्वेन हेतुत्वमुभयवादिसिद्धमेव । भेदान्वयवोधे तादृशानुपूर्वीज्ञानहेतुताकुल्पनमधिकमिति वाच्यम् । उक्ताभेदान्वयबोधे तथाविधानुपूर्वीज्ञानहेतुतायां पर्यायशब्दान्तटितानुपूर्वीज्ञानजन्यतथाविधाभेदान्वयबोधे व्यभिचारवारणाय तादृशानुपूर्वीज्ञानानन्तर्यस्य कार्यतावच्छेदककोटाववश्यं निवेशनीयतया तत्र' विषयनिवेशे प्रयोजनाभावेन तादृशकार्यतावच्छेद नकाराकलाप उक्ताभदान्वयबोधे तथाविधानुपूर्वीज्ञानहेतुतायां पर्यायशब्देत्यादोति। ननु विषयमनिवेश्य राजपुरुष इत्याद्याकांक्षाज्ञानाव्यवहितोत्तरजायमानशाब्दत्वावच्छिन्नं प्रति राजपुरुष इत्याद्याकांक्षाज्ञानस्य कारणत्वोपगमे राज्ञः पुरुष इत्यादौ राजपदस्य राजसम्बन्धिनि स्वारसिकलक्षणाग्रहदशायामभेदसम्बन्धावच्छिन्नराजसम्बन्धित्वावच्छिन्नप्रकारतानिरूपितपुरुषत्वावच्छिनविशेष्यताकस्य राजपुरुष इत्यादौ प्रसिद्धस्य तात्पर्य्यज्ञानादिघटितसामग्रीबलादापादने तद्धविच्छिन्नकार्यानुत्पादकस्य राजपदाव्यवहितोत्तरत्वविशिष्टपुरुषपदत्वरूपाकाङ्क्षाज्ञानाव्यवहितोत्तरजायमानशाब्दत्वावच्छिन्नकायं प्रति कारणस्य राजपुरुष इत्याकारकाकाङ्क्षाज्ञानस्य विरहोकिञ्चित्कर इति तात्पर्य्यज्ञानोपस्थित्यादिघटितसामग्रीबलात्तादृशका-पत्तिर्दुर्वारा । न च तादृशकायं प्रति राजपुरुष इत्याकारकाकाङ्क्षाज्ञानोत्तरशाब्दत्वा 'षष्ठयर्थविशिष्टार्थलाक्षणिकपूर्वपदकसमासत्वमेव तत्त्वमिति भावः । २ विभिन्नधर्मेण एकम्मिबोधकपदघटितसमासत्वमेव तत्त्वमिति भावः। तत्रेति-भेदविषयकत्वाभेदविषयकत्वनिवेशे शाब्दबोध इति भावः।
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy