SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ १२० व्युत्पत्तिवादः [ कारके कस्यैव भेदान्वयबोधसाधारण्येनानुपूर्वीज्ञानस्य भेदान्वयबोधे हेतुतायाममाभिनयात् । एवं तण्डुलं पचतीत्यादावपि पाकादिरूपधात्वर्थे कर्मत्वादिसम्बन्धेन तण्डुलादेरन्वयबोधः स्वीकर्तुमुचितः । कर्मत्वस्य पाकाद्यंशे प्रकारत्वे तत्र तत्र द्वितीयादेः शक्तिकल्पने ताशवाक्यजन्यशाब्दबोधे कर्मत्वादिसंसर्गस्याधिकस्य विषयताकल्पने च गौरवात् । तम्बुलं पचतीत्यादिवाक्यजन्यशाब्दबोधसामग्रीबलात्तण्डुलः पचतीत्यादावपि तथाविधान्वयबोधापत्तिस्तु न संभवति । तादृशान्वयबोधे द्वितीयान्ततण्डुलपदत्वाद्यबच्छिन्नधर्मिकपचतीत्यादिसमभिव्याहारज्ञानस्य हेतुतया तण्डुलः पचतीत्यादौ तादृशसामग्ऱ्या अप्रसिद्धेः । एवं पञ्चति चैत्र इत्यादावपि कृतिसम्बन्धेन पाकादेश्चैत्राद्यंशेऽन्वयबोधस्वीकार उजितः। अन्यथोक्तरीत्या गौरवात्। तत्र तादृशान्वयबोधस्वीकारे तत्स्थलीयसामग्रीबलात् पच्यते चैत्रः पाकश्चैत्र इत्यादौ तथाविधान्वयवोधापत्तेरप्युक्तरीत्या वारणसंभवादिति। ___ मैवम् राज्ञः पुरुष इत्यादौ षष्ठयादेः स्वत्वादिवाचकत्वमावश्यकम् । अन्यथा पुरुषोन राज्ञ इत्यादौ पुरुषे राजस्वत्वाद्यभावबोधानुपपत्तेः। न हि तत्र स्वत्वादिसम्बन्धावच्छिन्नप्रतियोगिताकराजा वच्छिन्नस्य कार्य्यस्य व्यापकता येन व्यापकसामग्रीविधया राजपुरुष इत्याकाङ्क्षाज्ञानस्यापेक्षा तदापादने स्यात् । नृपपुरुष इत्यादावपि तादृशशाब्दबोधस्य सत्त्वात् इति चेत्-उच्यते । यादृशान्यतमसमनैयत्यं यस्य कार्यस्य तादृशकार्योत्पत्तौ तादृशान्यतमस्य सामग्री अपेक्ष्यते । प्रकृते च राजपुरुषः नृपपुरुष इत्याद्याकाङ्क्षाघटितप्रदर्शितका-न्यतमसमनै यत्यस्यापाद्यमानकार्ये सत्त्वात्तदुत्पत्तौ तदन्यतमस्य राजपुरुष इत्याद्याकाङ्क्षान्यतमस्यापेक्षणात्तद्विरहान्नापत्तिरिति बोध्यम् । अत्रेदं बोध्यं-विषयनिवेशो युक्तः ।
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy