________________
प्रथमा ]
जयाऽलङ्कृतः
१२१
द्यभाव एव प्रतीयते न तु राजस्वत्वाद्यभाव इति संभवति । स्वत्वादिसंबन्धस्यवृत्त्यनियामकतया प्रतियोगितानवच्छेदकत्वेन तत्संबन्धावच्छिन्नप्रतियोगिताकाभावाप्रसिद्धः। अत एक-स्वामित्वादिकं परित्यज्य स्वत्वादेः षष्ठ्यर्थत्वं नवीनाः स्वीकुर्वन्ति । स्वामित्वादेःषष्ठ्यर्थत्वे तस्य निरूपकतासम्बन्धेन धनांशेऽन्वयसम्भवेऽपि तादृशसम्बन्धस्य वृत्तयनियामकतया संसर्गाभावप्रतियोगितानवच्छेदकत्वेन तत्संबन्धावच्छिन्नाभावस्य नत्रा प्रत्यायनासम्भवात्। प्राचलासंबन्धाद्यवच्छिन्नाभावबोधस्यैतादृशसमभिव्याहारस्थलेऽभ्युपगमे चैत्रादिसंबन्धिनि धनेऽपि आश्रयतासंबन्धावच्छिन्नप्रतियोगिताकचैत्रवृत्तिस्वामित्वाभावसत्त्वान्नेदं चैत्रस्येति प्रयोगशापत्तिः । नाम नब्समभिव्याहारस्थलान्वयबोधानुरोधेन षष्ठयादेः स्वत्वादिवाचकत्वेऽपि राज्ञः पुरुष इत्यादौ षष्ठ्याद्यर्थस्य संसर्गमर्यादयाभानमुचितम् । तस्य-प्रकारत्वोपगमे तत्सम्बन्धस्याधिकस्य भानकल्पने गौरवात् । नङ्समभिव्याहारस्यैव तत्प्रकारकबोधनियामकत्वाभ्युपगमेन सामग्रीबलात् तत्प्रकारकबोधस्य तदसमभिव्याहारस्थलेऽ
तृणारणिमणिन्यायस्थले परस्परव्यभिचारवारणायाव्यवहितोत्तरत्वनिवेशे तृणाव्यवहितोत्तरवह्नित्वापेक्षया लाघवात्तृणाव्यवहितोत्तरप्रमेयत्वतदव्यवहितोत्तरत्वादेः कार्य्यतावच्छेदकत्ववारणाय विशेषधर्मावच्छिन्नं प्रति कारणत्वसम्भवे सामान्यधर्मावच्छिन्नं प्रत्यन्यथासिद्धत्वमवश्यं वक्तव्यम् । एवं स्थिते अभेदसम्बन्धावच्छिन्नराजसम्बन्धित्वावच्छिन्नप्रकारतानिरूपितपुरुषत्वावच्छिन्नप्रकारतानिरूपितपुरुषत्वावच्छिन्नविशेष्यताकबुद्धित्वावच्छिन्नत्वे का
यंत्वे सम्भवति प्रदर्शितसामान्यधर्मावच्छिन्नं प्रत्यन्यथासिद्धत्वमिति स्यात् । तस्मादेतद्ग्रन्थ एतदप-लोचनयैव बोद्धयः ।