________________
संभवादिति कायम् । एवं सतिं नजपदं विना यादृशसमभिव्याहारस्थले यत्र धर्मिणि येन सम्बन्धेन यस्य विशेषणतया भानं तत्र नसमभिव्याहारस्थले तद्धर्मिणि तत्सम्बन्धावच्छिन्नप्रतियोगिताकतदभावः प्रतीयते इति सर्वजनसिद्वानुभवस्यापलापापत्तेः । एवं
सर्वजनसिद्धानुभवस्यापलापापत्तेरिति । वस्तुतोऽत्र नैतत् व्युत्पत्तिविषयता अन्यथा भूतले घट इत्यत्र घटे भूतलवृत्तित्ववता प्रतीयते । नञ्
प्रतियोग्यभावान्वयौ तुल्ययोगक्षेमावित्यनुभवार्थ प्रकाशयति-नञ्पदं विनेत्यादिना । अस्य फलन्तु पचत्यपि चैत्रे न याचतीति प्रयोगवारणम् । अन्यथा समवायसम्बन्धेन पाकानुकूलकृतिमत्यपि चैत्रे संयोगेन पाकानुकूलकृत्यभावबोधनं सम्भवेत् । नन्वेवं भूतले घट इत्यादौ भूतलनिरूपितवृत्तित्ववान् घट इत्यर्थात् नञ्पदं विना एतादृशसमभिहारस्थले घटरूपर्मिणि स्वरूपसम्बन्धेन न वृत्तिताया विशेषणता तत्र नसमभिव्याहारे स्वरूपसम्बन्धावच्छिन्नवृत्तित्वावच्छिन्नाभाव एव प्रतीयतां 'पटे कथं घटाभावो भूतलवृत्तिरिति प्रतीयते इति चेत्सत्यम् । नञ्समभिव्याहारे यद्धविच्छिनयत्सम्बन्धावच्छिन्नप्रकारताप्रयोजकत्वं सम्भवति तस्य नसमभिव्याहारे नअर्थाभावनिष्ठविशेष्यतानिरूपितप्रतियोगितानिरूपकत्वसम्बन्धावच्छिन्नप्रकारताप्रयोजकत्वेन यदि सजिघृक्षितः तदा तत्सम्बन्धावच्छिन्नतद्धर्मावच्छिन्नप्रतियोगितानिरूपकत्वसम्बन्धावच्छिन्नप्रकारताप्रयोजक एव भवतीत्यर्थः। अत एव घटो न घट इत्यादौ शब्दानुमितिवारणार्थयत्नः सार्थकः । एवञ्च भूतलवृत्तिता न तादृशप्रकारताप्रयोजकत्वेनाभिमता यदि चेदभिमता तदा नियमविषयता स्यात् । इत्थं सति प्रकृते यदि राजप्रतियोगिताकोऽभावो बुबोधयिषितश्चेत्तदा नियमस्य विषयः स्यात् । बुबोधयिषितश्च राजस्वत्वप्रतियोगिताकाभाव इत्येवं नियमाविषये को दोष इत्यरुचेराह