________________
राज्ञः पुरुष इत्यादिवाक्यजन्याप्रामाण्यज्ञानानास्कन्दितबोधदशायां
समभिव्याहारे च नअर्थाभावे घटस्य प्रतियोगितयान्वयः । भूतलवृत्तित्वस्य चाश्रयतया अन्वयस्था च घटाभावो भूतलवृत्तिरिति प्रतीयते । एवं घटो न घट इत्यत्र घटत्वावच्छेदेन घटत्वावच्छिन्नप्रतियोगिताकाभावप्रकारकानुमितिशाब्दयोर्वारणाय कारणान्तरं न कल्पनीयमिति फलत्वेनोपन्यस्तम् । तत्रापि नञोऽसमभि व्याहारे घटत्वावच्छेदेन तादात्म्येन घटवत्ताप्रतीतेरभावात्तदवच्छेदेन तदभावस्य नञा प्रत्याययितुमशक्यतया तादृशानुमितिशाब्दयोरप्रसङ्गात्तदु केतश्चासङ्गतैव स्यात् । तस्मात् यत्र धर्मे यत्सम्बन्धावच्छिन्नयद्धविच्छिन्नप्रकारतानिरूपितविशेष्यतावच्छेदकतासम्बन्धेन शाब्दत्वावच्छिन्नं प्रति साकाङ्क्ष यद्वाक्यं तेन वाक्येन नघटितेन तद्धर्मावच्छिन्ने तद्धविच्छिन्नप्रतियोगिताकाभावश्चेद्बोधनीयस्तदा तत्सम्बन्धावच्छिन्नप्रतियोगिताक एवाभावो बोध्यते । इत्येव प्रतियोग्यभावान्वयौ तुल्ययोगक्षेमावित्यस्यार्थः । प्रतियोगितायां तद्धविच्छिन्नत्वन्तु अभावावगाहिबोधस्य विशिष्टवैशिष्ट्यावगाहित्वेन लभ्यते । तथा च घटो न घट इत्यादौ तादृशबोधो न भवति तद्धर्मभेदस्य कारणत्वात् । परं तादृशबोधं प्रत्याकाङ्क्षाऽस्त्येवेति न दोषः। मतले न घट इत्यत्र घटत्वावच्छेदेनाभावो बोधनीय एव नास्तीति न दोषः । एवं प्रकृतेऽपि यदि पुरुषत्वावच्छेदेन राजत्वावच्छिन्नाभावबोधरचेदभिप्रेतस्तदैवानेन नियमेन स्वत्वसम्बन्धावच्छिन्नप्रतियोगिताकत्वमभावस्य स्यात्त देव नेति इत एवारुचेराह--अप्रामाण्यज्ञानेत्यादि ।
राज्ञः पुरुष इत्या देति । अप्रामाण्यज्ञानानास्कन्दितराजत्वावच्छिन्नस्वत्वसंसर्गावच्छिन्नप्रकारताकपरुषत्वावच्छिन्नविशेष्यताकशाब्दबद्धित्वावच्छिन्नं प्रति अप्रामाण्यज्ञानागास्कन्दितराजत्वावच्छिन्नस्वत्वसम्बन्धावच्छिन्नप्रतियोगिताकाभावत्वावच्छिन्ना भावीयविशेषणतासम्बन्धावच्छिन्नाभावनिष्ठप्रका