________________
१२४. व्युत्पत्तिवादः
[ कारके पुरुषो न राज्ञ इत्यादिवाक्यादपि शाब्दबोधापत्तेः स्वत्वाभावबुद्धौ
तेन सम्बन्धेन तद्वत्ताबद्धि प्रति तेन सम्बन्धेन तदभाववत्ताबुद्धिरेव प्रतिबन्धिका न तु तत्प्रतियोगिकतत्सम्बन्धाभाववत्तापीति तदभावव्याप्यवत्तामुद्रया च तत्र तदभावव्याप्यत्वनिश्चये एव प्रतिबन्धकता । यस्य च व्याप्यत्वनिश्चयो नास्ति तस्य च भवत्येव ज्ञानद्वयम् । इति राजस्वत्वाभावे स्वत्वेन राजा भावव्याप्यत्वनिश्चयाभावेऽपि राज्ञः पुरुष इत्यतो ज्ञानदशायां राज्ञो न पुरुष इति वाक्याबोधो नेष्यते । स च स्यादिति भावः ।
रतानिरूपितपुरुषत्वावच्छिन्नविशेष्यताकबुद्धित्वेनैव प्रतिबन्धकता भवितुमर्हति । न तु तादृशबुद्धित्वावच्छिन्नं प्रति स्वरूपसंसर्गावच्छिन्नराजस्वत्वत्वावच्छिन्नप्रतियोगिताकाभावीयविशेषणतासम्बन्धावच्छिन्नाभावत्वावच्छिन्नप्रकारतानिरूपितपुरुषत्वावच्छिन्नविशेष्यताबुद्धित्वेन प्रतिवन्धकता भवति मानाभावात् ।
ननु पुरुषो न राज्ञ इत्यादावपि स्वत्वादिसंसर्गावच्छिन्नाभावस्यैव प्रतीत्या प्रतिबन्धकता भवतु भवदभिलषिता इति चेत् वृत्तिनियामकसम्बन्धस्य प्रतियोगितावच्छेदकत्वाभ्युपगमे वृत्त्यनियामकश्चाधारतानवच्छेदक इति यावत् । राज्ञः पुरुष इत्येतद्वाक्यजन्यशाब्दसामग्रीसमये राजस्वत्वाभाववान् पुरुषः सुन्दर इत्याकारकविशिष्टवैशिष्ट्यावगाहिप्रत्यक्षः प्राप्तः नहि राजस्वत्वाभाववान् पुरुषत्वप्रकारकनिश्चयस्य तादृशसामग्रीबाधनिश्चयत्वं तस्य बाधाभावात् । एवञ्च विशेष्यतावच्छेदकादिप्रकारकनिश्चयादिकारणकलापात् प्राप्ततादृशप्रत्यक्षत्वावच्छिन्नं प्रति राज्ञः पुरुष इत्येतादृशशाब्दसामग्रयाः प्रतिबन्धकताकल्पनेन भवतां गौरवम् । न च प्रकारतावादिमते तादृशप्रतिबन्धकताप्रयोजनं तस्य राजस्वत्ववान् पुरुष इत्येतदर्थकराज्ञः पुरुष इत्येतादृशशाब्दसामग्रीकाले राजस्वत्वाभाववान्