SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ स्वत्वसंसर्गकज्ञानस्य विरोधित्वे मानाभावात्। किञ्च वृत्त्यनियाम वृत्यनियामक सम्बन्धस्याभावीयप्रतियोगितानवच्छेदकत्वादिति । अयम्भावः । स्वत्वनिरूकत्वादिनानासम्बन्धावच्छिन्नप्रतियोगिकाभावकल्पनायां गौरवमिति । न च स्वरूपसम्बन्धावच्छिन्नप्रतियोगिताकाभावकल्पनायां भवता मपि सत्त्वेनोभयोः साम्यमिति वाच्यम् । राजनिरूपितस्वत्वन्नास्तीत्यादौ स्वरूपसम्बन्धावच्छिन्नप्रतियोगिताकराजनिरूपितस्वत्वाभावकल्पनाया भवतामप्यावश्यकत्वेन दंशे साम्येन निरूपकत्वस्वत्वादिसम्बन्धावच्छिन्नाभावकल्पना भवतामधिकति न वृत्त्यनियामकस्य प्रतियोगितावच्छेदकत्वमिति । यद्यपि स्वत्वर म्बन्धेन राजाभावस्य स्वरूपसम्बन्धेन राजनिरूपितस्वत्वाभावस्य चैकदेशवृत्तितयाऽतिरिक्तपदार्थानिवेशान्न गौरवं समनियतवस्तुन ऐक्यात् तथाऽपि तत्सम्बन्धावच्छिन्नप्रतियोगिताकल्पनायां गौरवस्य तदवस्थत्वात् तत्कलनया निःफलत्वाच्च । किञ्च येन सम्बन्धेन यद्वत्ताबुद्धिः यत्र प्रवृत्तिप्रयोजिका भवति तत्सम्बन्धावच्छिन्नावच्छिन्नप्रतियोगिताकतदभावस्य तदप्रवृत्त्युप मोगितया कल्पनमावश्यकं भवति । स्वत्वादिसम्बन्धेन तद्वत्ताबुद्धिस्तु न तत्र तत्प्रवृत्तिप्रयोजिकेति । तत्सम्बन्धेन तदभावस्य तत्र तदप्रवृत्त्यनुपयोगितया तत्कल्पनन्नावश्यकमिति बोध्यम् । ननु वृत्त्यनिया मकस्य प्रतियोगितानवच्छेदकत्वे अणुपरिमाणान्न घट: गुणन्न गच्छतीत्यादौ निरूपितत्वसम्बन्धावच्छिन्नप्रतियोगिताकाणुपरिमाणाभाववज्जन्यत्ववान् घट इति वृत्तित्वसम्बन्धाप्रतियोगिताकगुणाभाववत्सं पुरुषत्वादिविशेष्यता बच्छेदकनिश्चयाभावेन विशिष्टबुद्धौ विशेषणबुद्धे :कारणत्वम् । विशिष्टप्रत्यक्षत्वावच्छिन्नं प्रति विशेष्यतावच्छेदकादिप्रकारकनिश्चयस्य कारणत्वात् । तदभावादेव एकसमये तदुभयोरसत्त्वान्न प्रतिबन्धकताप्रयोजनं न च संसर्गतावादिमतेऽप्येकविधप्रतिबध्यप्रतिबन्धकभावेनैव
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy