SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ १२६ व्युत्पत्तिवादः [ कारके योगानुकूलव्यापारवानिति बोधद्वयोरनापत्तिरिति चेन्न। तत्राणुपरिमाणस्याणुपरिमाणनिरूपितत्वे गुणस्य गुणवृत्तित्वे च लक्षणया स्वरूपसम्बन्धेनाणुपरिमाणनिरूपितत्वाभाववज्जन्यत्ववान् घट इति बोधस्य स्वरूपसम्बन्धेन गुणवृत्तित्वाभाववत्संयोगानुकूलव्यापारवानिति बोधस्य च वक्तुं शक्यत्वेनादोषात् । न चाणुपरिमाणान्न गगनमित्यादौ दोषः। जन्यत्ववत्वस्य गगनेऽसत्त्वादिति वाच्यम् । नअर्थाभावस्य द्विधाभानेनादोषात् । स्वरूपसम्बन्धावच्छिन्नप्रतियोगिताकाणुपरिमाणनिरूपितत्वाभाववज्जन्यत्वाभाववद्गगनमिति बोधः। न च नअर्थस्य द्विधा भानमेव गौरवमिति वा गणो गुणन्न गच्छतीत्यादौ भवतामपि तथा कल्पनाया आवश्यकत्वात । अन्यथा गुणवृत्तित्वाभाववत्संयोगानुकूलव्यापारवत्वस्य गुणेऽप्रसिद्धतया बोधानापत्तेः । गुणादीनां येन सम्बन्धेन यद्धर्मिणोति । नन्वेवं नियमो यदि स्यातहि संसर्गतावादिनां दोषः स्यात् तदेव न भूतले न घट इत्यादौ तात्पर्य्यसत्त्वे घटनिष्ठप्रतियोगिताकाभावो भूतलवृत्तिरित्येवमपि बोधदर्शनादन्यथा नोऽसत्त्वे भूतलवृत्तित्ववान् घट इत्यस्यैव प्रतीत्या नञः सत्त्वे भूतलवृत्तित्वाभाववान् इत्येवं रूपेणैव बोधः स्यान्न तु घटत्वावच्छिन्नप्रतियोगिताकाभावो भूतलवृत्तिरेवमिति । किञ्च घटो न घट इत्यादौ तादात्म्यसम्बन्धावच्छिन्नघटत्वावच्छिनप्रतियोगिताकाभावत्वावच्छिन्नप्रकारताकघटत्वावच्छिन्नविशेष्यताकशाब्दबोधवारणाय तत्सम्बन्धावच्छिन्नतद्धविच्छिन्नप्रतियोगिताकाभावत्वाप्रकारतानिरूपितविशेष्यतावच्छेदकतासम्बन्धेन शाब्दबुद्धित्वावच्छिन्नं प्रति प्रतियोगितावच्छेदकविशेष्यतावच्छेदकयोर्भेदः कारणमिति ग्रन्थकारेणैव निर्वाहः । तथा हि घटवद्भूतलमित्येतादृशप्रत्यक्षत्वावच्छिन्नं प्रति तादृशशाब्दसामग्रयाः प्रतिबन्धकतायास्तवापि अवश्यं कथनीयत्वात् । एवञ्च विभिन्नविषयकप्रत्यक्षत्वावच्छिन्नं प्रति राज्ञः पुरुष इत्येतादृशवाक्यजन्यशाब्दसामग्री प्रतिबन्धकेति चेन्न । शाब्दसामग्री प्रत्यक्षप्रतिबन्धिका भवति ।
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy