SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ १२७ कसम्बन्धस्याभावप्रतियोगितावच्छेदकत्वेऽपि राज्ञः पुरुष इत्यादौ प्रथमा ] जयाऽलङ्कृतः स्वीकृतमस्ति । निरुक्तनियमासत्त्वे तु तादात्म्यसम्बन्धेन घटे घटवत्ता नञोऽसत्त्वेन प्रतीयते इति नञः सत्त्वेऽपि तत्सम्बन्धावच्छिन्नप्रतियोगिताकाभावप्रकारकबोधो न स्यादेवेति तादृशशाब्दबोधवारणाय ग्रन्थकारप्रयासोऽपि व्यर्थतामेव व्रजेत्तस्मान्नञोऽसत्त्वे तत्सम्बन्धावच्छिन्नतद्धर्म्मावच्छिन्नप्रकारताकशाब्दबोधं प्रति साकाङ्क्ष यद्वाक्यन्तेन नञ्घटितेन तद्धर्म्मावच्छिन्नप्रतियोगिताकाभावश्चेद्बुबोधयिषतस्तर्हि तत्सम्बन्धावच्छिन्नप्रतियोगिताक एवेत्येव नियमस्तथा च यत्र द्रव्यस्य घटपदेन ग्रहणन्तत्र तादात्म्यसम्बन्धावच्छिन्नप्रकारताकद्रव्यत्वावच्छिन्नविशेष्यताकशाब्दबोधो घटो घट इत्यादिवाक्यादपि भवतीति तादृशशाब्दबोधं प्रति साकाङ्क्षेन नञ्घटितेन वाक्ये घटत्वावच्छिन्नप्रतियोगिताकाभावोऽपि विवक्षित इति तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकस्तादृशाभावत्वावच्छिन्नप्रकारताकशाब्दबोधवारणाय तादृशकार्य्यकारणभावोऽवश्यकः । एवं नञोऽसत्त्वे स्वरूपसम्बन्धेन भूतलवृत्तित्ववान् घट इति प्रतीयते । इति तादृशशाब्दबोधं प्रति साकाङ्क्षेन भूतले घट इति वाक्येन नघटितेन न भूतलवृत्तित्वावच्छिन्नप्रतियोगिताकाभावो विवक्षितः किन्तु घटत्वावच्छिन्नप्रतियोगिताक इति नियमाना - क्रान्ततया न तत्रापि शाब्दबोधानापत्तिरिति । एवञ्च स्वत्वसम्बन्धेन राजविशिष्टः पुरुष इति शाब्दबोधं प्रति साकाङ्क्षन नञ्घटितेन राज्ञो न पुरुष इति वाक्येन राजत्वावच्छिन्नप्रतियोगिताकाभावो विवक्ष्यते । अपि तु राजस्वत्वत्वावच्छिन्नप्रतियोगिताक इति नियमानाक्रान्ततया न नियमतो विरोध इत्यरुचेराह —- राज्ञः पुरुष इत्यादि । तत्सम्बन्धावच्छिन्न यदि तु प्रत्यक्षेच्छाऽस्ति शाब्देच्छा च नास्ति तत्र प्रत्यक्षं भवति । यत्र चोभयोरिच्छाऽस्ति तत्र शाब्दसामग्री प्रतिबन्धिका भवतीति वस्तुस्थितिः ।
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy