________________
राजस्वत्वादेः प्रकारताभ्युपगमः समुचितः। अन्यथा तांहशसमभिव्याहारज्ञानघटितशाब्दसामग्रीकाले राज बत्वाभाववान्पुरुषः सुन्दर इत्याकारकविशिष्टवैशिष्ट्यावगाहिप्रत्यक्षवारणाय तत्र तादृशसामग्र्याः प्रतिबन्धकताकल्पनाधिक्येन गौरवात्।
'तद्धविच्छिन्नप्रकारतानिरूपिततद्धविच्छिन्नविशेष्ाताकशाब्दबुद्धित्वावच्छिन्नं प्रति तेन सम्बन्धेन तद्धर्मावच्छिन्नप्रतियोगिताकाभावत्वावच्छिन्नप्रकारताकतद्धविच्छिन्नविशेष्यताकबुद्धेरेव प्रतिबन्धकत्वादिति भावः । यद्यपि राजभावव्याप्यवत्तामुद्रया राजस्वत्वाभाववा पुरुष इति बुद्धेरपि स्वत्वसम्बन्धेन राजवान् पुरुष इति बुद्धि प्रति प्रतिबन्ध कत्वमस्त्येव तथाऽपि व्याप्यत्वाग्रहदशायामपि प्रतिबन्धकत्वमिष्टन्तन्न स्या दित्याशयेन ग्रन्थप्रवृत्तिरिति न ग्रन्थासङ्गतिः ।
शाब्देच्छाविरहविशिष्टप्रत्यक्षेच्छाविरहविशिष्टराज्ञः परुप इत्येतादृशवाक्यजन्यशाब्दसामग्रथा विभिन्न विषयकप्रत्यक्षत्वावच्छिन्नं :राति प्रतिवन्धकत्वेऽपि यत्र घटवद्भूतलमिति प्रत्यक्षेच्छाऽस्ति घटवन्न भूतल मिति प्रत्यक्षसामग्री चास्ति तत्रापि घटवन्न भूतलमिति प्रत्यक्षं स्यात् । शाब्दसामग्रथाः शाब्देच्छाविरहविशिष्टप्रत्यक्षेच्छावत्वेन तद्विरहाभावेनाप्रति न्धकत्वात् । एवञ्च घटवन्न भूतलमिति प्रत्यक्षो मे जायतामित्येतादृशेच्छाविरहविशिष्टराज्ञः पुरुष इत्येतद्वाक्यजन्यशाब्दसामग्री घटवन्न भूतलमित्येता दृशप्रत्यक्षत्वावच्छिन्न प्रति प्रतिबन्धिकेति । इच्छाविषयतायाः प्रतविन्धक तावच्छेदकत्वोपगमेन एकरूपेण वक्तुमशक्यत्वात् । न च प्रत्यक्षविशिष्टेच्छाविरहविशिष्टशाब्दसामग्रयाः प्रतिबन्धकत्वम् । वैशिष्ट्यञ्च स्वविपय त्वस्वसामग्रीसमानकालिकत्वैतदुभयसम्बन्धेन । एवञ्चान्यादृशप्रत्यक्षस मग्रीसद्भावे अन्यादशप्रत्यक्षेच्छायाः प्रत्यक्षवैशिष्ट्याभावात् न दोष इत्युक्त्यैकरूपेणोच्यता