________________
तद्गतसंख्यानिष्ठवृत्त्यं निरूपकत्वमपि तु तद्विशेव्यकसंख्याप्रकारकशाब्दबोधाननुकूलत्वमेव । तथाच कर्त्रादिविनायकसंख्यान्वयबोधाजनकलकारादिसमभिव्याहृतकत्रादिवाचकपदात् तृतीयाइयो भवन्तीत्यत्र तदनुशासनतात्पर्यम् । चैत्रेण तल इत्यादी चैत्रादिविशेष्यकं संख्यान्वयबोधकत्वं नाख्यातस्य । आख्यातार्थआवनाया यत्रान्वयस्तद्विशेष्यकसंख्यान्वयबोधस्यैवाख्यातेन जननात्तादृशभावनान्वयबोधे विशेष्यश्च प्रथमान्तप दोपस्थाप्य एव । चैत्रः पचति तण्डुलमित्यादौ चैत्रादिः साक्षादेव भावनावि शेष्यस्वम् । चैत्रेण पच्यते तण्डुल इत्यादौ तु परम्परया चैत्रादिनिष्टभावनाजन्यपाकजन्यफलशाली तण्डुल इतकारकवोधस्यैव तत्रोदयात् । तस्मात्तिवादेरपि संख्याबोधकत्वमावश्यकमिति तन्न विचारसहम् । तथाहि कर्त्रादिनिष्ठसंख्यान्व यवोधाननुकूलत्वं यदि तादृशबोधफलोपधायकज्ञानविषयत्वाभाववचं तदा याहशतिबादिज्ञानेन सहकार्यन्तरविरहात्तादृशबोधो न जनितस्तयोगे तृतीयाद्यापत्तेः । यदि च तादृशवोधस्वरूपयोग्यज्ञानविपयत्वाभावस्तदा यगादिसमभिव्याहृतात्मनेपद्वादिज्ञानस्यापि तादृशवोधत्ररूपयोग्यत्वात्तत्स्वरूपयोग्यज्ञानाविधैयतिवाख्य तस्यैवाप्रसिद्धेः ।
कर्त्रादिविशेष्यक संख्यान्वयबुद्धित्वावच्छिन्न जन्यतानिरूपितजनकतावच्छेदकविपयित्वानिरूपकत्वमेव ताहशबोधाननुकूल
त्वम् । चैत्रः पचतीत्यादिवाक्यघटकतिवादिविधता चैत्रादिदिशेष्यकसंख्यान्वयबुद्धित्वावच्छिन्नजन्यतानिरूपितजनकतावच् दिका तादृशान्यबुद्धित्वावच्छित्रं प्रति चैत्रासमभिव्याहृततिवादिपदज्ञानत्वेनाकांक्षाज्ञानस्य हेतुल्यात् । चैत्रेण वच्यते तण्डुल इत्यादिवाक्यघटकतयादिपद्विषयिता च न तादृशी + चैत्रादिपदसमभिव्याहततादृशपदज्ञानत्वेन तादृशान्वयबुद्धित्वा
वच्छिन्नं प्रत्यहेतुत्वात् । न च चैत्रः पचते इत्यादी चैत्रविशेष्य