SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ काख्यातार्थसंख्यान्वयबोधोत्पत्त्या चैत्रादिपदसमभिव्याहृततयादिपदज्ञानत्वेनापि तादृशान्वयबुद्धित्वावच्छिन्नहेतुताऽक्षतैवेति चैत्रेण पच्यते इत्यादि वाक्यघटकीभूततयादिपदविषयितापि तादृश्येवेति वाच्यम्। चैत्रेण - पचते चैत्रः पच्यते इत्यादिवाक्याच्चैत्रादिविशेष्यकस्य भावनायाः संख्यायाश्चान्वयवोधस्यानुदयात्+ तद्विशेष्यकतदुभयान्वयबोधे प्रथमान्तचैत्रादिपदसमभिव्याहृतशबादिविकरणोत्तरतत्तदाख्यातपदज्ञानत्वेन हेतुत्वाच्चैत्रेण पच्यते तण्डुल इत्यादिवाक्यघट कतयादीनां तादृशसमभिव्याहारादिशून्यतया तद्विपयिताया अताहशत्वात् । चैत्रः पक्ष्यते इत्यादितस्तस्डुलः पक्ष्यत इत्यादितश्चैत्रतण्डुलादिविशेष्यकसंख्यान्वयबोधोत्पत्त्या चैत्रः पक्ष्यते तण्डुल इत्यत्रोभयविशेष्यकसंख्यान्वयबोधौपयिकसमभिव्याहारज्ञानविषयितायाः तयादिपदे सत्त्वेन कर्तृकर्मणोस्तृतीयाद्वितीययोरप्रसक्तावपि न तादृशवाक्यं व्युत्पन्नाः प्रयुञ्जते । कर्तरि साक्षात् कर्मणि च दर्शितपरंपरया युगपद्भावनाविशेपरणकान्वयवोध जनकताया आख्यातस्याव्युत्पन्नतया तादृशवाक्याटुभयविशेषणकान्वयबोधासम्भवात् । न चाकाङ्क्षायोग्यतादिज्ञानसत्वात्कथन्न तादृशान्वयबोध इति वाच्यम् । अगत्या एकविधान्वयवीधऽन्यविधीन्वयबोधसामाग्यस्तद्घटकतात्पर्यज्ञानस्य वा प्रतिबन्धकत्वोपगमात् । न-च चैत्रेण तण्डुलः पक्ष्यते चैत्रस्तण्डुलं पक्ष्यते इत्यादिवाक्यद्वयविषयकसमूहालम्बनदशायामपि उभयविधान्वयवोधानुपपत्तिरिति वाच्यम् । तादृशैकविधान्वयवोधे' तादृशान्यविधान्वयबोधपरत्वेनागृह्यमाणतथावि तादृशेकविधान्वयबोध इति । तद्विशेष्यकसंख्यान्वयबोधे अन्यविशेष्यकसंख्यान्वयबोधपरताप्रकारकतात्पीयविशेष्यतानवच्छेकदधर्मावच्छिन्नधम्मिताकतद्विशेष्यकतादृशान्वयबोधपरज्ञानं कारणमिति । १२
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy