SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ धाख्यातधर्मिकप्रकृतान्वयबोधपरत्वज्ञानस्य हेतुनया चैत्रः पक्ष्यते तण्डुल इत्यादिवाक्यात्तादृशद्विविधान्वयबोधवारणस्य दर्शितवाक्यद्वयात्तदुपपादनस्य शक्यत्वात् । न च निरुक्त संख्यानभिधानस्य तृतीयाद्वितीयानियामकत्वे चैत्रेण स्वं दृश्यते, चैत्रः स्वं पश्यतीत्यादी तृतीयाद्वितीययोरनुपपत्तिः । कादिविशेष्यकसंड्याप्रकारकान्वयबोधौपयिकाकाङ्क्षाज्ञानीयविषयत्वानिरूपकत्वस्य तत्राख्यातेऽसत्त्वादिति वाच्यम् । कादिपरयत्पदाख्यातपदयोः समभिव्याहारः संख्यान्वयबोधत्वावच्छिन्नप्रयोजकविषयित्वानिरूपकस्तत्पदोत्तरं तृतीयाविभक्तिरित्येवं नियमोपगमेन प्रथमस्थले पत्रपरवपदाख्यातपदयोर्द्वितीये च तत्परचैत्रपदाख्यातपदयोः स्मभिव्याहारस्यैव तद्विशेष्यकसंख्यान्वयबोधप्रयोजकतया क्रमेण चैत्रपदस्वपदाभ्यां तृतीयाद्वितीययोरनुपपत्त्यनवकाशादिति चेत्-न। अनभिहित इत्यधिकारे कर्तृकरणयोस्तृतीयेत्याद्यनुशासनस्य कि प्रयोजनमिति वक्तव्यम् । चैत्रः पचति तण्डुलः पच्यते इत्यादौ त्रतण्डुलपदाभ्यां द्वितीयातृतीययोरप्रयोग इति चेत्तत्किं मा गमन्त्रादिन्यायेन तादृशानुशासनस्य तथाविधप्रयोगविरोधिता येन तदभावस्तत्प्रयुक्तः स्यात्। न चैवं सम्भवति पचति पच्यते इत्यादिक्रियायोगे कर्तकर्मवाचकपदानन्तरं तृतीयाद्वितीययोरसाधुलस्य तत्कर्तृत्वतकर्मकत्वादिवोधौपयिकाकाङ्क्षादिरहितत्वादिरूपस्य प्रतिपत्तिः प्रयोजनं तस्येति चेतहि उक्तनियमपरतयापि न ततस्तल्लाभः । प्रथमान्तचैत्रतण्डुलपदतत्तदाख्यातपदयोः समभिव्याहारस्यैव चैत्रतण्डुलादिविशेष्यकतत्तदाख्यातार्थसंख्यान्वयवोधप्रयोजकतया चैत्रेण पचति तण्डुलं पच्यते इत्यादिवाक्यघटकतृतीयान्तद्वितीयान्तचैत्रतण्डुलादिपदतिबादिपदयोः समभिव्य हारस्यातथात्वेन तख़ुटकतृतीयाद्वितीययोः साधुत्वस्योक्तनियमात् यवच्छेद्यत्वात् । तस्मान्मुख्यभाक्तसाधारणकर्तृत्वकर्मत्वयोः कर्तृकर्मवाचकपदसम
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy