SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ प्रथमा ] जयाऽलङ्कृतः १७६ भिव्याहृतलकारकृत्तद्धितसमासैरनभिधानमेव तृतीयाद्वितीयादिनियामकं शिरोमणिभिरचैव निर्भरमभिहितः । कटेक खादीनां तदनभिधायकत्वं च न तद्वाचकत्वं तन्निष्ठवृत्त्य निरूपकत्वं वा आख्यातसामान्यस्यापि (आत्मनेपदस्यापि ?) आख्यातत्वेन तेत्यादिना वा कर्तृत्वादिनिष्ठ शुक्तिलक्षणानिरूपकत्वात् । कर्तृत्वाभिधायकाख्यातस्यैवाप्रसिद्धेः । तच्छाब्दबोधौपयिकाकाङ्क्षाश-: न्यत्वमेव तत् । चेत्रेण पच्यते तण्डुल इत्यादावाख्यातस्य कर्तत्वादिवाचकत्वेऽपि तच्छाब्दबोधौपयिकाकाङ्क्षाराहित्यं तत्राक्षतमेव । चैत्रादिपदोत्तर तृतीययैव कर्तत्वबोधनसम्भवात् + तत्र तादृशाकाङ्क्षाया अकल्पनात् इत्यपि न । चैत्रेण पक्ष्यते इत्यादौ तृतीयानुपपत्तेः । पक्ष्यते चैत्र इत्यादितश्चैत्रादौ पाककृतेः केवलात्पक्ष्यत इत्या -: दितच मुख्यविशेष्यतया तुझ्या बोधनात्तादृशाख्यातधात्वोरानुपूर्वीविशेषाकाङ्क्षायाः कृर्तिवाधापयिकत्वात् ॥ नेच समभिव्याहाररूपाकाचैव विवक्षणीया + प्रकृते तु प्रकृतिप्रत्यययोरानुपूर्वीरूपाकाङ्क्षा न तु समभिव्याहार इति नोक्तानुपपत्तिरिति वाच्यम् । तथा सति चैत्रेण पचतीत्यादावपि तृतीयायाः साधुतापत्तेः । ताहशचैत्रपदाख्यातपदयोः समभिव्याहारस्य कृतिबोधानौपयिकत्वात् चैत्रेण विजेष्यते मैत्र इत्यादौ तृतीयानुपपत्तेश्च । विजेष्यते मैत्र इत्या-1 दितो मैत्रादिकृतिबोधात्तादृशाख्यातमैत्रपदयोः समभिव्याहारस्य कृतिवोधौपयिकत्वात् । किं तु तत्तात्पर्यशून्यत्वमेव । तथा च चैत्रेण पक्ष्यत इत्यादावाख्यातस्य कर्त्तृत्वादितात्पर्यकत्वे तृतीया असा -. धुरेव । तथा च चैत्रेण पचतीत्यादावाख्यातस्यार्थाविवक्षायां तृतीयायाः साधुवेऽपि परस्मैपदस्यासाधुत्वान्न तादृशः प्रयोग: • 'वृतीति । वृतिपदेन लक्षणाया अपि ग्रहणात्पूर्वतो वैलक्षण्यं बोध्यम् ।
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy