SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ १८० व्युत्पत्तिवादः [ कारके परस्मैपदस्यासाधुत्वं च+ धात्वर्थविशेष्यस्य प्रत्ययेनाधिवृक्षणे भावकर्मणोरिति सूत्रेणात्मनेपदनियमात् । अख्यातार्थविवक्षाया, न चैत्रेण पचते इत्यादिप्रयोगः, शवादिविक णस्यासाधुत्वात् । कर्तृत्वतात्पर्यकसार्वधातुकप्रसोग एव तत्साधुत्वात्। कर्तृत्वकर्मत्वोभयतात्पर्येण चैत्र: पंक्ष्यते तण्डुल इत्यादयस्तु न प्रयोगाः । तदेकतरबोधेऽन्यपरत्वेनागृह्यमाणाख्यातधर्मिक कृतान्वयवोधपरत्वज्ञानस्य हेतुत्वात् । चैत्रेण पक्ष्यते तण्डुल इत्पादौ कर्तृत्वादावाख्यातस्य तात्पर्यग्रहे कर्मत्वाद्यन्वयबोधोऽपि न भवत्येव । अथ पक्कानि भुङ्क्ते चैत्रः ओदनः पक्त्वा भुज्यते इत्पादौ कृतां क्रमेण कर्तृत्वकर्मत्वानभिधानाच्चैत्रपदौदनपदाद्युत्तरं तृतीयाद्वितीये कथन्न स्याताम् । न च कृतानभिधानेऽपि आख्यातेन तदभिधानान्नानभिहितत्वं समभिव्याहृतपदाभिहितत्वसामान्याभावस्यैवानभिहितपदेन विवक्षणात् । समभिव्याहृते तिकथनाच्च त्रेण गम्यते ग्रामस्तं मैत्रो गच्छतीत्यादौ न तृतीयाद्वितीययोरनुपपत्तिः । गच्छति गम्यत इत्याद्याख्यातस्य तत्तत्पदासमभिव्याहृतादिति वाच्यम् । तथा सति भुञ्जानेन चैत्रेण पच्यते अोदनो भोत्तव्यमोदनं पचतीत्यादौ तृतीयाद्वितीययोरनुपपत्तिः। कृता कतल कर्मत्वयोरभिधानात्। कृता तत्र भोजनकर्तृत्वतत्कर्मत्वयोरभिधानेऽपि पाककर्तत्वं तत्कर्मत्वं चानभिहितमेवेति चेत्तहिं प्रकृतेऽपि त नभिहितमेव । न च प्रधानक्रियानिरूपिततत्तत्कर्तृत्वाद्यनभिधाने तृतीयादेः साधु १ समरियाहनेति । समभिव्याहृतत्वञ्चकवाक्य कात्यमिति । प्रकृतेऽपोति । पक्वानि भुको चैत्रः मोदनः पा चा सुलात इस हादी पाककर्तृत्वयाककर्मत्वयोरनभिधानात्तबोधिके द्वितीया ये कथन स्थालानित्याशङ्कायाः जनावानमाह--न घेत्यादिना ।
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy