________________
भानमनि04
तेति । तदुक्तम् । प्रधानशक्त्यभिधाने गुणशक्तिरभिहितवत्प्रकाशते इति शक्तिः कर्तृ वादिकमिति वाच्यम् । तथापि चैत्रेण दृश्यमानं घटं मैत्रः पश्यत त्यादौ ज्ञानभेदेन विषयताया भेदाभावात्। चैत्रदर्शनमैत्रदर्शनोभयनिरूपितविषयत्वरूपकर्मतायाः कृताभिधानाद्वितीयानुपपत्तिरिति चेत्-न। तत्तत्प्रातिपदिकार्थविशेषणत्वमात्रेण कर्तृत्वकर्मत्वाद्यविवक्षाया एव तदनभिधानपदार्थत्वात् तत्तत्प्रातिपदिकार्थविशेष्यतया कर्तृत्वकर्मत्वादिविवक्षायां द्वितीयाविभक्तेः साधुल मित्यर्थे तात्पर्यस्य पर्यवसितत्वात्। शेषमाख्यातार्थविचारावसरे विवेचयिष्यत इत्यलमत्राधिक्येन । ____ आख्यातद्विवचनबहुवचनयोस्तु संखयाबोधकत्वमावश्यकम्। चैत्रो मैत्रश्च गच्छतः चैत्रो मैत्रो देवदत्तश्च गच्छन्तीत्यादौ "चन्द्रे कलङ्कः सुजने दरिद्रता विकाशलक्ष्मी: कमलेषु चञ्चला। मुखाप्रसादः सधनेषु सर्वदा यशो विधातुः कथयन्ति खण्डितम्” इत्यादौ च द्वित्वबहुत्ववोधकसुपोऽभावात् । न च तत्र सुबेकवचनस्यैव द्वित्वबहुत्वादी लक्षणास्त्विति वाच्यम्। आनुशासनिकातिरिक्तार्थे सुव्वि-। भक्तर्लक्षणाया अनभ्युपगमात् । अन्यथा चैत्रो मैत्रश्च गच्छत इत्यादाविव छन्दसि लक्षणयैव स्वादिना द्वित्वादिवोधनसम्भवात्। औजसादिरूपादेशस्मृतिद्वारा द्वित्वादिबोधनिर्वाहाय छन्दसि सुपां सुलुगित्यादिसूत्रेण औजसादिस्थाने स्वाद्यादेशविधानस्य वैययात्। चैत्रादिपदोत्तरैकवचनस्य द्वित्वादिलाक्षणिकत्वे तदप्रकृत्यर्थमैत्रादिसाधार गद्वित्वादिबोधस्योक्तव्युत्पत्तिविरोधेनानुपपत्तेश्च । द्वित्वायाख्याता सङ्घयान्वयबोधे च स्वसमानविशेष्यकतदर्थभार
'गच्छन्तोत्याहाविति। एतादृशप्रयोगस्य प्रामाणिकत्वं दर्शयति--चन्द्र । कलङ्क इत्यादिना श्रीहर्षइलोकेन ।