SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ "वना विषय भगरकोभनिन नान्वयबुद्धिसामग्री अपेक्षिता । "भावनाया बाधादिग्रहकाले' तंत्र तात्पर्य ग्रहादिशून्यकाले चोक्तस्थले द्वित्वान्वयाबोधात् । विशेष्ये धात्वर्थादौ सङ्ख्यान्वयाबोधाच्च तादृशसामन्याः सङ्ख्यान्वयबुद्धित्वावच्छिन्नं प्रति न स्वातन्त्र्येण' हेतुता । तदकल्पनेsपि खयातजन्यसंख चोपस्थितियोग्यताज्ञानविशेषादिघटितसामग्य्या भावनानवगाहि संख चान्वयबोधस्य कदाप्यजननात् । संखचान्वयबोध साधारणभावनान्वयबोधत्वावच्छिन्नहेतूनामपि तादृशसामग्रीघटकत्वेनानुपपत्त्यभावात् । न च तादृशकारणानां भावनान्वयबुद्धित्वं संखयान्वयबुद्धित्वं वा जन्यतावच्छेदकमुपेयते इत्यत्र विनिगमनाविरहः । सङ्ख्यामविपयीकृत्यापि भावनान्वयबोधस्यानुभवसिद्धत्वात् । द्वितीये जन्यतावच्छेदकत्वासभ्भव' इति दिकू । 'स्वातन्त्र्येणेति । किन्तु व्यापकसामग्री विधेयेति शेषः । संख्यान्वयबुद्धित्वव्यापकत्वाद्भावनान्वयबुद्धित्वस्येतिभावस्तदेवोपपादय व्यग्रिमग्रन्थेनेति । तादृशकारणानामिति । भावनान्वयकारणानामित्यर्थः । १ जन्यतावच्छेदकत्वासम्भव इति । संख्यान्वयबुद्धित्वस्य न्यूनवृत्तित्वादिति भावः । ४ * प्रथमाविवरणसमाप्तौ दिगितिप्रतीकमुपादाय श्रीमद्गुरुचरणाः । दिगिति । दिगर्थस्तु सन्तीत्यध्याहारस्त्रयः काला इत्यत्र वक्तुं शक्य एव । न च त्रयाणां कालानां युगपद्वर्त्तमानत्वानन्वयो वर्तमाने लडित्यादौ वर्तमानत्वादेः प्रयोगकालिकस्यैव ग्रहणादन्यथा प्रतिप्रसङ्गापत्तिरिति वाच्यम् । सन्तोत्यत्र लडुपात्तवर्तमानत्वस्याविवक्षितत्वात् । प्रायोपात्तवर्त्तमानत्वं हि न सर्वत्र विवक्षितं भवति । अत एव ग्रामं गमिष्यति ग्राममगमदित्यादौ ग्रामादेः कर्मत्वं सिद्धयति । अन्यथेप्सिततमत्वविरहात्तदनापत्तिः । ईप्सित
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy