________________
अथ गुणादिवाचकंपदोत्तरद्विवचनबहुवचनयोः कथं द्वित्वबहुत्वबोधकता संखयागुणत्वेन गुणादी बाधात् । न च तत्र स्वाश्रयसमवेतत्वादिसम्बन्धेन द्रव्यगतं द्वित्वादिकमेव भासते इति वाच्यम्। एकव्यक्तावपि तादृशसम्बन्धेन द्वित्वादेः परिसमाप्ततया एकमात्रतात्पर्येणापि द्विवचनाद्यापत्तिरिति चेत् अपेक्षाबुद्धिविषयत्वमेव तदुत्तरद्विवचनादिना बोध्यते । तच्चैकमात्रवृत्तिधर्मस्य प्रकृत्यर्थतावच्छेदकस्थले प्रकृत्यर्थतावच्छेदकव्याप्यत्वविशिष्टपर्याप्तिसम्बन्धेन प्रकृत्यर्थेऽन्वेति । अन्यत्र तु शुद्धपर्याप्तिसम्बन्धेनेति न द्वित्वादिस्थलोक्त दोष इति विदुषां परामर्शः।
इति व्युत्पत्तिवादे प्रथमाविवरणम् ।
अथ द्वितीयाविवरणम् कर्मणि द्वितीयेत्यनुशासनात्कर्मत्वं द्वितीयार्थः। तत्र कर्मपदस्य धर्ममात्रपरत्वात । सप्तम्या वाचकतार्थकत्वात्। कर्मणश्च न
पदे हि मतिबुद्धीतिसूत्रेण वर्तमाने क्तः । अत एव कर्तुरिति षष्ठी सङ्गच्छते । अन्यथा न लोकेति निषेधापत्तेः । न च निष्ठेतिसामान्यसूत्रविरहितोऽयं क्तः षष्ठी तु शेषत्वविवक्षयेति वाच्यमेवमपि ग्रामं गच्छति गमिष्यतीत्यत्र कर्मत्वानापत्तेरनुद्धारात् । निष्ठेतिसूत्रेऽपि भूते इत्यधिकारात् । वर्तमानत्वविवक्षायां ज्ञापकन्तु भूते इत्यधिकारे कर्मणि हन इति णिनिविधायक तच्च सामान्यापेक्षकं तच्च लडुपात्तमपि वर्तमानत्वं क्वचिदविवक्षितं तेन प्रकृतेऽप्यदोषात् । अत एव मौद्गश्चरुर्भवतीत्यनेन सार्वकालिकयागीयचरुनियमः संगच्छते इति दिगिति ब्रूमः ।
इति व्यत्पत्तिवादजयायां प्रथमाविवरणम् ।