________________
तथात्वम् । कर्मणि नामार्थस्य ग्रामादेरभेदान्वयसम्भवेऽपि धात्वर्थगमनादिना तदन्वयासम्भवात् गौरवाच्च । कर्मस्वं च क्रियाजन्यफलशालित्वम् । तत्र च क्रिया.धातुत एव लभ्यते । जन्यजनकभावस्य च विनैव पदार्थत्वं संसर्गमर्यादया भानं सम्भवतीति फलमात्रं' कर्मप्रस्थयार्थः। नव संयोगविभागरूपफलमपि धातुलभ्यमेव । गमित्यजिप्रभृतीनां तदवच्छिन्नस्पन्दादिरूपव्यापारवाचकत्वादिति काव्यम् । व्यापारमात्रस्य धात्वर्थत्वात् । फलविशेषान्वयबोधे च धातुविशेषजन्यव्यापारोपस्थितेर्हेतुतया ग्रामं त्यजतीत्यादौ (च धात्वर्थे स्पन्दे ग्रामनिष्ठविभागजनकत्वमेव ग्राम् गच्छतीत्यादौ च ग्रामनिष्ठसंयोगजनकत्वमेव प्रतीयते न तु विपरीतम्। ग्राम गच्छतीत्यादिवञ्च वोमं स्पन्दते इत्यादयो न प्रयोगाः। द्वितीयादेर्गम्याद्युपस्थापितस्पन्दादावेव फलान्वयबोधकत्वात् । 'स्पन्दिप्रभृत्युपस्थापिते तस्मिन् द्वितीयादिना फलान्वयबोधजननासम्भवात् । न...हि येन केन चिदुपस्थापितयोरेवार्थयोः परस्परमन्वयः प्रतीयते। तथा सति घटकर्मत्वादिपद पस्थापितयोरपि घटकर्मत्वाद्योः परस्परमन्वयबोधप्रसङ्गात्। कृयादिसमानार्थकयतधातूपस्थाप्ययत्ने विषयितार्थकद्वितीयार्थान्वयसंभवेन घटं करोतीतिवद् घटं यतते इत्यादिप्रयोगप्रसङ्गाच्च । अपि तु. मयोर्याह
" 'अन्वयासम्भवादिति । ग्रामवृत्तिसंयोगानुकूलत्वसम्बन्धेन कर्मणः संयोगावच्छिन्नव्यापारेऽन्वयहि गौरवात्संयोगस्य द्विधा भानादिति ।
२ स्वाश्रयबलजनकत्वसम्बन्धेन यथाकथञ्चित्तत्सम्भवादाह-गौरवादिति ।
आश्रयत्वस्यापि संसर्गमर्यादयैव भानसम्भवादाह-फलमात्रमिति । * गूढार्थतत्त्वालोके न तु स्पन्दीत्यादिपाठः ।