________________
द्वितीया ] जयाऽलङ्कृतः
१८५ शान्वयबोधे आकाङ्ला तदुपस्थापितयोरेव तादृशान्वयवोधः ।
आकाङ्क्षा च द्वितीयादेर्गम्यादिना कृयादिना च कल्प्यते न तु तत्समानार्थकेनापि स्पन्दियतिप्रभृतिनेति । न चाकांक्षात्र समभिव्याहारः स च गम्यादिनेव स्पन्दादिनापि समान एवेति वाच्यम् । यतो द्वितीयादेर्गम्यादिसमभिव्याहारस्यैव फलबलादन्वयवोधौपयिकत्वमुपगम्यते न तु स्पन्दिप्रभृतिसमभिव्याहारस्येति न तस्याकाङ्क्षात्वमन्वयवोधौपयिकसमभिव्याहारस्यैव तथात्वात् । अत एव समानार्थकत्वेऽपि गम्यादेरिव न स्पन्दादेरपि सकर्मकत्वव्यवहारः। फलान्वितव्यापारबोधकधातुत्वस्यैव लन्नियामकत्वात्।
अथ धातोर्व्यापारमात्रवाचित्वे त्यजति गच्छति त्यागो गमनमित्यादिवाक्यादविलक्षणबोधप्रसङ्गः। नहि शक्तिभ्रमाद्यजन्ययोस्तादृशवाक्यजन्यबोधयोरवैलक्षण्यं कश्चिद युपैति । तथा सति त्यागादितात्पर्येण गमनादिपदं व्युत्पन्ना अपि प्रयुञ्जीरन् । न च तत्र फलविशेपावच्छिन्नव्यापारे लक्षणा स्वीक्रियते इति विलक्षणबोधोपपत्तरिति वाच्यम् । लमण्या विलक्षणबोधजननेऽपि शक्तयाऽविलक्षणबोधजननसम्भवेन दर्शितातिप्रसङ्गस्य दुर्वारत्वात् । न च गम्यादिशक्तिज्ञानजन्यार्थोपस्थित्या फलाविषयबोधस्य कुत्राप्यजननात् तादृशोपस्थितिघटितसामग्रीशरीरे फलविशेषबोधकसामग्री निवेश्यते। तथा च त्यागगमनादिपदयोः शक्त्या नाविलक्षणबोधजनकतेति वाच्यम् । त्यजिगम्योरेकार्थवाचकतारूपपर्याचतां विपर्यस्यतो गमनादिपदात् त्यागादिपदजन्यबोधसमानाकारकबोधस्य सर्वानुभवसिद्धतया गम्यादिशक्तिज्ञानात्फलाविपयकबोधस्यापि पदजन्यबोधनियामकताया वक्तुमशक्यत्वात् । तथा चाभ्रान्तस्यापि भवन्मते ततोऽविलक्षणबोधसम्भवेन एकविधबोधतात्पर्येण व्युत्पन्नानां तादृशप्रयोगप्रसङ्गो