SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ दुर्वार इति चेत्-मैवम् । कर्मप्रत्ययासमभिव्या हतत्यागगमनादिपदस्य तत्तत्फलावच्छिन्नव्यापारेऽनादितात्पर्य क प्यते न तु केवलव्यापारे। अनादितात्पर्यमेव च स्वारसिकप्रयोगनियामकमिति एकार्थतात्पर्येण प्रामाणिकानां स्वारसिको न त्याग् गमनादिप्रयोगः। एवं त्यजिगमिप्रभृतिसमभिव्याहृतकर्मप्रत्ययस्यापि फलविशेष एव नियतं तादृशं तात्पर्यमिति न विभागादितात्पर्येण ग्रामं गच्छतीत्यादिप्रयोगः । तदर्थबोधकत्वमानं तु न तदर्थतात्पर्येण स्वारसिकप्रयोगनियामकम् । तथा सति शक्तिभ्रमादिना घट पदस्यापि पटादिबोधकतया पटेऽपि घटादिपदप्रयोगापत्तिः। नापि शक्त्या बोधकत्वं तथा । निरूढलक्षणयापि स्वारसिकपदप्रयोगात् । शक्तिभ्रमं लक्षणाज्ञानं चान्तरेण गम्यादेविभागादिरूपफलविशेषितरुपन्दादिबोधकत्वाभावनियमोऽसिद्ध एवेति तात्पर्य नमसहकृतशक्तिप्रमया तादृशबोधजननेऽपि न क्षतिः । विमा लक्षणाग्रहं भ्रमानधीनतादृशबोधो गमिप्रभृतितो न सम्भवतीत्येव नियमः । स च तात्पर्यभ्रमेणैव निर्वहतीति विभागाद्यर्थे पूर्वपूर्वे पामनादितात्पर्यभ्रमवतो वक्तुः स्वकीयतात्पर्येण ग्रामं गच्छतीत्यादिप्रयोगो यत्र तकोतुस्तात्पर्यभ्रमासम्भवेऽपि वक्तृतात्पर्यान दित्वभ्रम एव प्रयोगसंपादनद्वारा तदर्थशाब्दबोधप्रयोजक इति न तादृशनियमक्षतिरिति प्राचीनपथपरिष्कारप्रकारः । मनिपमा मnt नव्यास्तु संयोगादिरूपफलविशेषावच्छिन्नस्पन्दो गम्याद्यर्थः ।* तद्धात्वर्थतावच्छेदकफलशामित्वमेव तद्धातुकर्मत्वम् । नातो गम्यादिकर्मत्वस्य पूर्वदेशादौ प्रसङ्गः। - वा स्पन्दे: सकर्मकत्वम् । तत्र फलस्य धात्वर्थतानवच्छेदकत्वात्। एवं च धातोरेव फलविशेषलाभात् फलान्वयिनी वृत्तिरेव द्वितीयार्थः। न च-कर्मणि द्वितीयेत्यनुशासनविरोधः। तस्य कर्मणि फलनिष्ठाधेयत्वान्वयिनि प्रकृतितात्पर्य तदुत्तरं द्वितीयेत्यर्थकत्वात् । न चैव तस्य ,
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy