SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ शक्तिग्राहकत्वानुपपत्तिः। अनादितात्पर्यग्रहसंपादकत्वेन परंपरया शक्तिग्राहकत्वसम्भवात् । न च फलस्य पदार्थैकदेशतया तत्र द्वितीयार्थवृत्तेरन्वयाससम्भवः। व्युत्पत्तिवैचित्र्येण प्रकृते एकदेशान्वयस्वीकारात् । अथ गमनं न स्पन्द इत्यादितो धात्वर्थतावच्छेदकफले स्पन्दभेदान्वयबोधसम्भवेन तत्रैतादृशप्रयोगस्य वारणाय फलविशेष्यकान्धयवोधे तद्विशेष्यकवृत्तिज्ञानजन्यफलोपस्थितित्वेन हेतुत्वकल्पनस्यावश्यकत्वात् तादृशकारणबाधन धात्वर्थतावच्छेदकफले द्वितीयार्थान्वयासम्भूवः। .. न च याः:शपदसमभिव्याहारज्ञानात् फलविशेष्यकस्पेन्दभेदान्वयबोधः प्रसिद्धः तादृशपदज्ञानजन्यफलाद्यपस्थितिघटितसामग्यास्तादृशान्वबोधोत्पादप्रयोजिकाया असत्त्वेनोक्तस्थले तदापत्त्यसम्भव इति वाच्यम् । यत्र गमनादिपदादेव लक्षणया शक्तिभ्रमेण वा स्वातन्त्र्येण फलोपस्थितिस्तत्र फलविशेष्यकस्पन्दभेदान्वयबोधसिद्धथा गमनपदसमभिव्याहारतज्जन्यफलोपस्थितिघटितसामग्रा फलविशेष्यकस्पन्दत्वाद्यवच्छिन्नभेदान्वयबोधप्रयोजकताया आवश्यकत्वात् । तद्बलेन शक्तिप्रमाधीनबोधेऽपि फलांशे स्पन्दभेद दिभानप्रसङ्गः। एवं च फलव्यापारयोः पृथक्शक्ति'स्वीकारपक्षेऽपि न निस्तारः। तथात्वेऽपि हि गमनं न स्पन्द इत्यादौ फले शक्तिप्रमया स्पन्दभेदान्वयबोधसम्भवेन तादृशप्रयोगापत्तेर्दुरित्वादिति चेत्-न । तद्विशेष्यकवृत्तिज्ञानजन्यतदुपस्थितिजन्यतावच्छेदक कोटौ तादृशोपस्थित्यव्यवहितोत्तरत्वनिवेशनमावश्यकम्। विशिष्य तत्तत्पदमन्तर्भाव्यैव पदार्थोपस्थितेरेकैकविधबोधे 'तादंगपदसर भिव्याहारज्ञानेत्यधिकः पाठः क्वचित्युस्तकेऽत्र । पृथक्शक्तीति । खण्डशक्तिरित्यर्थः । ।
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy