SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ १८८ व्युत्पत्तिवादः [ कारके नानाहेतुताया व्यवस्थापितत्वात् । एकपदाधीनत द्वेपयकवृत्तिज्ञानजन्यशाब्दबोधे पदान्तरवृत्तिज्ञानजन्यतदुपस्थितेवभिचारस्य प्रका रान्तरेण वारणासम्भवात् । एवं च धात्वर्थतावच्छेदकफले द्वितीयार्थान्वयवोधेऽपि क्षतिविरहः । तत्रैतादृशकारणस्य व्यभिचाराप्रसक्तेरिति वदन्ति । १ वियते । व्यापारमात्रस्य धात्वर्थनायामपि सर्वानुपपत्तीनामुद्धृतत्वात् फलावच्छिन्नव्यापारस्य गुरुतया तथात्वमनुचितम् । फले द्वितीयादेः शक्तयन्तरकल्पनामपेक्ष्य धातोविशिष्ट शक्तिकल्पनमेवोचितम् । न च भवन्मतेऽव्याधेयत्वे द्वितीयादेः शक्त्यन्तरस्य कल्पनीयत्वात्तदंशे साम्यमिति वाच्यम् । ग्राममध्यास्ते ग्राममधिशेते ग्रामं संयुनक्तीत्यादौ द्वितीयायाः सर्वमत एवाधेयत्वबोधकतया द्वितीयादेः फलवाचकत्वमपि आधेयत्ववाचकताया श्रावश्यकत्वात् । नच द्वितीयायाः संयोगादिवाचकत्वमते आधेयत्वे तस्या लक्षणैव न तु शक्ति' रेति वाच्यम् । आधेयतात्वस्याखण्डतया संयोगत्यादिसमशरीरलात् संयोगत्लाद्यच्छिन्ने तदवच्छिन्ने वा शक्तिः कल्प्यत इत्यत्र विनिगमकासम्भवात् । अस्तुखा ममाप्याधेयत्वे लक्षणैव शक्तिस्तु संख्यायामेवे | यदि च द्वितीयादेः फलबोधकतामते फलेऽपि तस्या लक्षणैव न तु शक्ति: शक्तिस्तु संख्यायामेव संयोगविभागादिरूपकप्रत्येकफलापेक्षया संख्यायां तत्प्रयोगप्राचुर्यस्य विनिगमकत्वादियुच्यते तवापि तन्मते धातुजन्यशुद्धव्यापारोपस्थितेः शाब्दबोध हेतुताकल्पनभधिकम् । द्वितीयाद्यसमभिव्याहारस्थलानुरोधेन फलविशेषाव 'द्वितीयादेरित्यादिग्रन्थस्थाने तत्र शक्तिकल्पनस्यं भयसाम्यादित्येव पाठः क्वचिद्धस्तलिखित पुस्तके |
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy