________________
प्रख्यातेकवचनस्य संख्यार्थकत्वे विवदन्त निष्कर्षांनुसारिणः।" घटोऽस्तीत्यादौ सुबेकवचनादेव संख्याबोध कत्वसम्भवात् । चैत्रेण दृष्टो घट इत्यादिस्थलानुरोधेन तस्य तद्बोधकताया आवश्यकत्वात् । न चैकवचनत्वेनानुगतेनैकत्वशक्तत्वात्तिकवचनस्याप्येकत्ववाचकत्वम क्षतमिति वाच्यम् । एकवचनत्वस्यैकत्वशक्ततावच्छेदकतायाः प्रागेव निराकृतत्वात् । अस्तु वा तेन रूपेण तिङ्कवचनस्या'येकत्वे शक्तिस्तथापि तज्जन्यैकत्वोपस्थितेः शाब्दबोधोपयोगित्वे नानाभावः । न हि सामान्यत एकवचनज्ञानजन्यैकत्वोपस्थितित्वेन तच्छाब्दबोधहेतुता सम्भवति। तथा सत्येकत्वेऽगृहीतसुपदवृत्तिकस्य पुंसः सुपदप्रकृतिघटादिपदोपस्थाप्यघटादौ पटादिपदोत्तरामादिपदोपस्थाप्यैकत्वाद्यन्वयबोधप्रसङ्गः, किन्तु सुपदत्वादिप्रकारकज्ञानजन्यतदुपस्थितित्वादिनैव । तथा सति घटादिपदोत्तरसुपदत्वादिरूपानुपूर्वीविशेषरूपाकाङ्क्षाज्ञानघटितायां घटादावेकत्वान्वयबोधस्य सामग्यां सुपदत्वादिप्रकारकधीजन्योपस्थितेरन्तर्भावात्तादृशापत्तेरनवकाशात् । एवं च तिबादिसमभिव्याहारप्रकारकज्ञानजन्योपस्थितित्वेन तच्छाब्दवोधहेतुत्वे मानाभाव इति । यत्तु तिवादेः संख्यानभिधायकत्वे चैत्रः पचति तण्डुलं चैत्रेण पच्यते तण्डुल इत्यादौ कर्तृकर्मवाचकपदात्तृतीयाद्वितीययोरापत्तिः कर्तृकर्मगतसंख्याया अनभिधाने 'कर्तृकरणयोस्तृतीयेति "कर्मणि द्वितीये"तिसूत्राभ्यां तयोरनुशासनात्में--- - नैयायिकमते. लकारस्य कर्तृकर्मावाचकतया तदनभिधानस्य द्वितीयातृतीयानियामकत्वासम्भवात् । न च.. कादिगतसंख्यानभिधानमेव कथं कादिवाचकपदोत्तरतृतीयादिनियामकं, चैत्रेण पच्यते तण्डुल इत्यादिस्थलेऽपि लकारस्य चैत्रादिगतसंख्याभिधायकत्वादेकत्वादिना एकत्वादिसामान्यस्यैवैकवचनाद्यभिधेयत्वादिति वाच्यम् । यतस्तद्गतसंख्यानभिधायकत्वं प्रकृते न
-
-