________________
वाइशोभय नरेकै
स्वार्थैकदेशेऽपि संख्यायां स्वप्रकृतिकविभक्त्यर्थ संख्यान्वयसाकाङ्क्षतयाऽन्यप्रकृतिकषष्ठ्यर्थ सम्बन्धान्वयसाकाङ्क्षतया च तेपां संख्यानार्थकताप्रवादः, न तु दशादिशब्दानां तथात्वं दशादिब्राह्मणतात्पर्येण ब्राह्मणानां दशेत्यादिप्रयोगविरहादिति तेपां संख्येयमात्रवाचिताप्रवाद इति “विंशत्याद्याः सदैकत्वे सर्वाः संख्येयसंख्ययोः। संख्यार्थे द्विवहुत्वे स्त" इत्यनुशासनमप्युक्तार्थे दर्शितव्युत्पत्तिग्राहकमित्यवध्येयम् । एकद्विबहुशब्दो त रैकवचनद्विवचनबहुवचनानि च न संख्याबोधकानि । उद्देश्यतावच्छेदकविधेययोरैक्येनैकत्वादिविशष्टे एकत्वाद्यन्वये आकाक्षाविरहादिति तदुत्तरं प्रथमाविभक्ति: प्रयोगसाधुतामात्राय नित्यबहुवचनान्तंभ्योऽबादिशब्देभ्यः परं प्रथमाबहुवचनमपि क्वचिन्निरर्थकमेव । यत्रै व्यक्तिमात्र तात्पर्येण तादृशशब्दः प्रयुज्यते तत्र बहुत्वान्वये योग्यताविरहात् । गुण व्यक्तम शत मिलिक
I
एका जल योंकि निशक्ति नातं जन माप तक बहुत्व म
जलन्य साथ विका
यत्तु तद्गतगुणादिसाधारणबहुत्वस्य तत्रान्वय इति-न शोभनम् । प्रकृत्यर्थतावच्छेदकव्याप्यपर्याप्तिसम्बन्धेनैवाने कवृत्तिसंख्यान्वयस्य व्युत्पन्नतया तादृशसम्बन्धन तथाविधबहुत्वान्वय- ' योग्यताविरहात् । अन्यथोदासीनघटपटादिसाधार बहुत्वस्याप्यन्वयसम्भवेन तद्गतगुणादिसाधारणबहुत्वानुधावन स्याकिश्चित्करत्वात् । श्रथ 4 तत्राजहत्स्वार्थ लक्षणया गुणादिसाधारणधर्मावच्छिन्न एव प्रकृत्यर्थ इति चेत्तर्हि बहुत्वेन भासमानषु गुणादिष्वपि पदार्थान्तरान्वयः स्यात् + तथा चापो द्रव्याणि दारा अत्र गृहे सन्तीत्यादिवाक्यानामप्रमारणतापत्तिः । गुणादिषु द्रव्याभेदे गृहवृत्तितादेर्वाधात् मुख्यार्थमात्र परतादृशशब्दानां बहुवचनान्ततानुपपत्तेश्चेति न किंचिदेतत् । अवादिपदार्थे एकत्वद्वित्वान्वययोग्यतासत्त्वेऽप्यसाधुत्वादेव तदुत्तरमेकवचनद्विवचने न प्रयुज्येते इति ध्येयम् ।