________________
तृतीया ] जयाऽलङ्कृतः
२५७ ऽश्वादौ गृहादिव्यापकताया बोधयितुमशक्यत्वात् । तदाधारतादिरूपसप्तम्याद्यर्थे च समासपदार्थस्य गृहादिव्यापकत्वस्याश्रयतासम्बन्धेन तदर्थस्य व्यापकरूपधर्मिणो वा भेदसम्बन्धेनान्वये मेयत्वे घट: घटवृत्तौ घट इत्यादिप्रयोगवारणाय कल्प्यायाः सप्तम्यर्थाधारताया आश्रयत्वसम्बन्धेनाभेदसम्बन्धेन वा प्रकृत्यर्थानन्वयव्युत्पत्तेविरोधात् । उपकुम्भे निधेहि उपकुम्भादागत: उपकुम्भेन कृत इत्यादौ च विवक्षितस्याधारत्वापादानत्वकर्तृत्वादौ कुम्भसमीपादेराधेयतासम्बन्धेनान्वयस्याधेयत्वादौ निरूपितत्वसम्बन्धेन तदन्वयस्य वा बोधे न कश्चिद्व्युत्पत्तिविरोध इत्युपपद्यन्ते तथा प्रयोगा इति ध्येयम् । त्वां च मां चान्तरेत्यादावन्तरान्तरेण युक्त इति द्वितीयाया निरूपितत्वमर्थः। तस्यान्तरापदार्थतावच्छेदकमध्यत्वेऽन्वयः। एवमन्यत्रापि तदर्थस्तूक्तदिशा स्वयं परिच्छेद्यः। , .
इति महामहोपाध्यायगदाधरभट्टाचार्यविरचिते
व्युत्पत्तिवादे द्वितीयाविवरणम् ।
अथ तृतीयाविवरणम् कारकविभक्तितृतीयायाः क्रियान्वयि कर्तत्वं करणत्वं चार्थः कर्तृकरणयोस्तृतीयेत्यनुशासनात् । कर्तृत्वं च मुख्यं क्रियानुकूलकतिरेव । सा च काख्यातसमभिव्याहृते चैत्रः पचतीत्यादौ क्रियाविशेष्यतयाख्यातेन प्रतिपाद्यते चैत्रेण पच्यते, शय्यते, इत्यादिकर्मभावाख्यातस्थले च क्रियायां विशेषणतया तृतीया सा प्रत्याय्यते। यदु तत्राख्यातार्थ एव कृतिः, तृतीयार्थश्चाधेयत्वम्, तस्य चाख्यातार्थकृतिविशेषणतयान्वयः, कृतेश्च क्रियाविशेषणतया तथा कृतिबोधने चात्मनेपदरूपस्थाख्यातस्य यगादिसमभिव्याहारज्ञानमपे-- क्षितम्, पचति पचत इत्यादौ तथा कृत्यन्वयाबोधात्, चैत्रेण ज्ञायते