SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ २५६ . व्युत्पत्तिवादः [ कारके इत्यादौ क्लृप्तम् । द्विरुक्तेरपि वृक्षवृक्ष सिञ्चतीत्यादौ क्लृप्तमिति प्रकृते संभेदेनान्यतरवैयर्थ्यमिति न्यायाद्वयोरेव व्यापकताबोधकत्वमवर्जनीयमिति वाच्यम् । प्रतिमासमधीत इत्यादावव्ययीभावे हि प्रथमातिरिक्तविभक्तरसाधुत्वेन प्रतिशब्देन मासान्वितव्यापकत्वं क्रियायां बोध्यते । विभक्तिः साधुत्वार्था । वृक्ष वृक्ष प्रतिसिञ्चतीत्यत्र तु सेके द्वितीयार्थकर्मत्वावरुद्धप्रकृत्यर्थवृक्षविशेषितव्यापकता बोधयितुं न शक्यते । एकविशेषणत्वेनोपस्थितस्यान्यत्र विशेषणत्वे व्युत्पत्तिविरोधात् । कमत्वसम्बन्धस्यैव च व्यापकताघटकत्वेन स्वीकरणीयतया वृत्त्यनियामकस्य तस्य तथात्वासंभवाच्च । तस्य सेककर्मत्वं पाश्रयतासम्बन्धघटितव्यापकताप्रत्यायनमपि न युज्यते। प्रकृत्यर्थसुबर्थयोरन्तरा नत्रातिरिक्तभानस्य व्युत्पत्तिविरुद्धत्वात् । नामूढस्येतरोत्पत्तेः । 'नानुपमृद्य प्रादुर्भावा'दित्यादौ नबर्थमात्रस्य पञ्चम्यर्थहेतुताया विशेषणत्वेन प्रकृत्यर्थस्य च विशेष्यत्वेनान्वयात् । तस्मात्प्रतिरनर्थक एव । द्विरुक्तान्वये तात्पर्यवलाञ्च सेचनकर्मत्वे वृक्षादेापकत्वं संसर्गतयैव भासते। यदि च वृक्ष प्रति सिञ्चतीत्यादावुपसर्गस्य प्रतेर्वाच्यो द्योत्यो वा कश्चिदन्योऽर्थस्तदास्तु स एवात्रापि तदर्थः । अत एव तस्येवास्यापि प्रतिशब्दस्य प्रयोगो नानर्थकः। __ वस्तुतोऽनर्थकयोः कर्मप्रवचनीयाधिपरिशब्दयोः प्रयोगवत्तादृशप्रतेरपि प्रयोगस्य प्रयोजनान्तरानुपपत्तिश्चिन्त्या। प्रतेर्यत्र व्यापकतार्थकत्वं तत्र प्रति वृक्ष सिञ्चतीत्यव्ययीभावसमास एव नियतः। तदर्थकाव्ययस्याव्ययीभावसमासविधेविभाषाधिकारीयताविरहेण नित्यत्वादतो वीप्सया प्रतिवृक्ष सिञ्चतीतिववृदं प्रति सिञ्चतीति न प्रयोगः। यत्र व्यापकत्वार्थकेनाव्ययेनाव्ययीभावसमासस्तदुत्तरं सर्वत्र प्रथमा विभक्तिरेव । न तूपकुम्भे गच्छतीतिवत् प्रतिगृहेऽश्वा इत्यादिरपि प्रयोगः । उक्तयुक्त्या नत्र प्रतिना
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy