SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ द्वितीया ] जयाऽलङ्कृतः • २५५ विशेषः पूर्ववत्। यावच्छब्दसमानार्थकाशब्दस्थलेऽपि दर्शितैव रीतिरवसेया। तद्योगे च पञ्चमी साधुः । ___ यज्ञमनु प्रावर्षदित्यादावनुशब्दार्थः कारकत्वरूपं हेतुत्वम् । अनुर्लक्षणे इत्यत्र कर्मप्रवचनीयसंज्ञाविधायकसूत्रे लक्षणपदस्य कारकहेतुपरत्वात् । तत्र च यज्ञान्वितस्याधेयत्वरूपद्वितीयार्थस्यान्वयः । हेतुतायाश्च निरूपकत्वसम्बन्धेन वृष्टावन्वयः। जन्यत्वं वानुशब्दार्थः। तत्र निरूपितत्वरूपद्वितीयार्थस्य यज्ञान्वितस्यान्वयः । जन्यतायाश्चाश्रयत्वसम्बन्धेन वृष्टावन्वयः । __ मन्बर्जुनं मोछार इत्यत्राप्रकर्षरूपं हीनत्वमनुशब्दार्थः । अर्जुनावधिकत्वं द्वितीयान्तार्थस्तस्य चापकर्षेऽन्वयः। अवधित्वस्यापादानतारूपत्वेऽपि क्रियान्वयाभावान्न पञ्चमीप्रसक्तिः । अस्मादयं दीर्घ इत्यादौ भवतीत्यस्याध्याहारेणैव पञ्चम्युपपादनात् । अतः षष्ठ्यपवादतानिर्वाहः। वृक्षं प्रति विद्योतते विद्युत् , मातरं प्रति साधुः, यो मां प्रति स्यात् , वृक्षं प्रति सिञ्चतीत्यादौ लक्षणेत्थं भूतेत्यादिसूत्रानुशिष्टकर्मप्रवचनीयसंज्ञकप्रत्यादिशब्दः प्रथमे परिचायकत्वरूपं लक्षणत्वं परिशेषत्वरूपं लक्ष्यत्वं वा कर्मप्रवचनीयार्थः । वृक्षप्रकाशेन विद्युद्विद्योतनज्ञानाद्वृक्षस्य परिचायकता। द्वितीयार्थश्चाधेयत्वं निरूपितत्वं वा। द्वितीये साधुत्वं प्रियकारित्वं साधुत्वघटकप्रियान्वयी सम्बन्धः कर्मप्रवचनीयार्थः । सम्बन्धान्वयि प्रतियोगित्वं तन्निरूपकत्वं वा द्वितीयार्थः । तृतीये भाग: स्वत्वाश्रयः प्रत्याद्यर्थः । तदन्वयी सम्बन्धो द्वितीयार्थः । इत्थं चास्मत्सम्बन्धी यो भागः स्यादिति बोधः। चतुर्थे कर्मण्येव द्वितीयार्थत्वबाध एव संज्ञाफलम् । प्रतिश्च निरर्थकः । गृहे गृहे श्वा इत्यादाविव व्यापकताया द्विरुक्तिबललभ्यत्वात्प्रतिशब्दस्य व्यापकतार्थकत्व उक्तार्थकत्वेन गृहे व्याप्नुवतेऽश्वा इत्यादाविव द्विरुक्तिरेव न स्यात् । न च प्रतिशब्दस्यापि व्यापकतार्थकत्वं प्रतिदिनमधीत
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy