________________
नवमीप्रागभावाधिकरणत्वमादाय नाप्रसिद्धिः । तथा सत्यपि तत्तदशमीप्रागभावाधिकरणकालस्य स्वाधिकरणकृष्णनवमीप्रागभावावच्छिन्नभेदवत्त्वसम्बन्धेन तत्तत्प्रागभावाधिकरणत्वाक्षतेः । न चैवमपि व्यवहितपूर्वकृष्णनवमीप्रागभावावच्छिन्नभेदघटितसम्बन्धेनाव्यवहितपूर्वकृष्णनवमीपूर्वतिथीनामपि तत्तदशमीप्रागभाववत्त्वात्तदधिकरणतिथिव्यापकत्वं पूजायां न संभवतीति वाच्यम् । स्वावच्छिन्नकृष्णनवमीप्रागभावाधिकरणत्वसम्बन्धेन म्वावच्छिन्नभेदस्यैव प्रागभावसम्बन्धे निवेशनीयत्वात् । स्वाधिकरणनिष्ठाभावप्रतियोगितानवच्छेदकत्वमपि तादृशावच्छेदकत्वसम्बन्धेन स्वावच्छिन्नस्य भेदः। अतस्तादृशावच्छेदकत्वत्वावच्छिन्नाभावनिवेशे यत्किञ्चिदशमीप्रागभावाधिकरणनिष्ठाभावप्रतियोगितामादायासिद्धिवारणाय विशिष्य तत्तत्प्रागभावरूपस्वपदार्थस्य सम्बन्धमध्ये प्रवेश्यतयाननुगम इति निरस्तम् ।
देशरूपस्य सीमा च काशीतः कौशिकी यावद यातीत्यादौ तत्र कौशिक्यां गमनसीमात्वं प्रतीयते । तच काशीपूर्वकौशिकीपश्चिमदेशव्यापकगमनानधिकरणत्वम् । काक्पदेन च कौशिक्यनधिकरणकत्वे सति काशीपूर्वकौशिकीपश्चिमदेशव्यापकत्वं गमने प्रत्याय्यते । तत्र द्वितीयार्थोऽवधित्वमवधिमत्वं वा प्रतीचीत्वाद्यन्वयि । निष्कर्षः पूर्ववत्स्वयमूहनीयः।
अभिविध्यर्थो यावच्छब्दः कार्तिकमारभ्य चैत्रं यावच्छीतं भवतीत्यादौ काशीत: पाटलिपुत्रं यावदृष्टो देव इत्यादावभिविधिस्तत्पर्यन्ताभिव्याप्तिः। एवं च प्रथमे कार्तिकपूर्वकालोत्तरचैत्रोत्तरकालपूर्वकालव्यापकत्वं चैत्रोत्तरकालाऽवृत्तित्वसहितं शीतभवने द्वितीये च काशीपश्चिमदेशपूर्वपाटलिपुत्रपूर्वदेशपश्चिमदेशब्यापकत्वं पाटलिपुत्रपूर्वदेशावृत्तित्वसहितं वृष्टौ यावत् प्रत्याय्यते ।