SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ तृतीया ] जयाऽलङ्कृतः २६५ तावच्छेदकताविरहेऽपि न विशिष्ट कर्तृत्वानिर्वाह इति मरणोद्देशे - नानुष्ठीयमानत्वस्य मरणकामनाधीनकृतिविषयत्वरूपतैवेति वा - च्यम्। ब्राह्मणं न हन्यादित्यादौ धात्वर्थतावच्छेदकस्य मरणस्य स्वोद्देश्यकत्वसंबन्धेन कृतावन्वय संभव एव निरुक्तविशिष्टकर्तृत्वस्य निषेधविधिविपयत्वसंभवात्, व्यापारविशेषणतयोपस्थितस्य कृत्यंशे विशेषणत्वस्य व्युत्पत्तिविरुद्धत्वात् । अथ मरणोपलक्षितव्यापारकर्तृत्वस्य तादृशनिषेधविषयत्वेऽपि न क्षतिः । अन्योद्देशेन नाराचक्षेपस्यापि ब्राह्मणमरणोपधायकस्य नरकसाधनत्वात् । परन्तु मरणरूपप्रायश्चित्तविधेरेव तदविषयकत्वमुपपादनीयम् । तच्च मरणोद्देशेन तदनुकूलव्यापारे कर्तृत्वबोधकस्य शब्दस्य तद्विधावन्तर्भाव एवोपपद्यत इति चेत् । एवमपि ब्राह्मणमरणकामनया यत्र न तन्मरणानुकूलव्यापारानुष्ठानमपि तु फलान्तरकामनाधीनतन्मरणानुकूलव्यापारत्वप्रकारकचिकीर्षया तदनुष्ठितं तत्राव्याप्तिरेतन्मते दुर्वारैव । तत्रापि संपूर्णस्यैव प्रायश्चित्तस्याचरणादलक्ष्यतोपगमासम्भवादिति मैवम् । यत्र हि मरणानुकूलव्यापारत्वेन कृतिसाध्यतादिधीस्तत्रैव यत्र व्यापार विशेषत्वेनैव तद्धस्तत्रापि मरणरूपफलकामनाधीनव्यापारविषयिणी कृतिर्मरणानुकूलत्वेन व्यापारमवगाहते। कृतेः कामनाविषयफलोपरागेणोपायविषयतोपगमात् । विशृङ्खलफलभानोपगमे यत्र तृप्तिकामनया भोजनं फलान्तरकामनया च गमनमवगाहमाना समूहालम्बन कृतिस्तत्र तृप्तये गमनं करोतीति व्यवहारापत्तेः । उपायांशे मरणस्यानुकूलत्वं संबन्धः प्रकारो वेत्यन्यदेतत् । ' एवं च मरणावच्छिन्नव्यापारविषयकत्वमुभयत्रैव कृतेरिति विशेषगावच्छिन्नविषयक कृतिमत्त्वं विशिष्टकर्तत्वमुभयस्थले निष्प्रत्यूहम् । मरणोद्देशेनानुष्ठीयमानत्वमपि मरणानुकूलत्वोपरागेण कृतिविषयत्वरूपं लक्षणघटकमिति न काचिदनुपपत्तिः । यद्यप्यदृष्टद्वारा पाकानुकूलकृतिमतोपि न पाकादिकर्तृत्वमिति तत्तत्क्रियाकर्तृत्व
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy