SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ २६६ व्युत्पत्तिवादः [ कारके घटककृतिनिष्ठतदनुकूलत्व एवादृष्टाद्वारकत्वमपेक्षितं, न तु क्रियानिष्ठफलानुकूलत्वे तत्तत्रापेक्षितमिति व्यापारनिष्ठमरणानुकूलत्वेऽदृष्टाद्वारकत्वरूपमणिकारोक्तविशेषणस्य न कर्तृताघटकत्वं तथाप्यनुष्ठीयमानत्वप्रविष्टकृतेरेवादृष्टाद्वारकमरणानुकूलत्वं विवक्षितम् । विशिष्टकर्तृत्वं चादृष्टाद्वारकत्वविशेषितमरणानुकूलत्वेन कृतिविशेषणेन घटितमिति मिश्राशयः। तथा चैवं पर्यवसितम्-हिनस्तेः प्रवृत्तिनिमित्तं मरणरूपफलावच्छिन्नव्यापारत्वमेव । न हिंस्यादित्यादौ फलविशिष्टस्वनिरूपितकर्तत्वसंबन्धेन हिनस्त्याद्यर्थस्यानिष्टविशेषसाधनत्वं प्रतीयते । श्येनस्य हिनस्त्याद्यर्थत्वेऽपि न तस्य तादृशकारणतावच्छेदकसंबन्धेन कचिदपि सत्त्वम् । तत्कर्तुरदृष्टाद्वारकानुकूलताघटितफलकर्तृत्वविरहेण विशिष्टाकर्तृत्वादिति नानिष्टविशेष प्रति हिंसात्वेन साधनत्वमिति न क्रियायां विध्यर्थान्वयमतेऽपि श्येनविध्यर्थबाधः । वस्तुत: श्येनानुकूलकृतेमरणप्रयोजकत्वमेव न तु मरणकारणत्वमन्यथासिद्धत्वात्। मरणोपलक्षितान्यकर्तृकखगाभिघातादिरूपवैरिवधं प्रत्येव हेतुताया वेदेन बोधितत्वात् । क्रियाजन्यकार्य तक्रियानुकूलकृतिहेतुतानियमेऽपि खड्गाभिघातादावेव श्येनकृतेर्हेतुत्वात् तथा चानिष्टविशेषजनकतावच्छेदकप्रत्यासत्तिप्रविष्टमरणानुकलत्वं मरणजनकत्वमेव न तु प्रयोजकत्वमतो दृष्टाद्वारकत्वं न तत्र निवेशनीयम् । कारणत्वपर्यन्तनिवेशलाभायैव तदुपादानम् । यदि च विशिष्टान्वयपरताया वेदे औत्सर्गिकपरत्वेन वधसाधनताबोधकश्रुत्या विशेषणीभूतमरणसाधनतापि श्येनस्य प्रत्याय्यते तदापि श्येनानुकूलकृतेर्मरणसाधनत्वमप्रामाणिकमेव । क्रियाजनककृतेस्तज्जन्यजनकतानियमस्याप्रामाणिकत्वात् । अथान्योद्देशेन नाराचक्षेपकर्तुविशिष्टविषयककृतिमत्त्वघटितविशिष्टकर्तताविरहेऽपि यथार्थवधजन्यपापप्रायश्चित्तं तथा श्येनकर्तुर्विशिष्टाकर्तृत्वात्पापार्द्धस्यावश्यकत्वाद्वलवदनि
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy