________________
तृतीया ] जयाऽलङ्कृतः
२६७ ष्टाननुबन्धित्वबाधो दुर्वार एवेति चेन्न । अकामकृतेऽप्यर्द्धप्रायश्चित्तश्रवणेन मरणावच्छिन्नमव्यापारस्य विषयतामनन्तर्भाव्यविशिष्टजनककृतिमत्त्वसंबन्धेन न्यूनपापे स्वतन्त्रहेतुत्वकल्पनात्। तबलेन विशिष्टकर्तुः श्येनकर्तुहिंसाजन्यपापानुत्पत्तेः। न च लाघवेन मरणोपलक्षितव्यापारजनकत्वमेव प्रत्यासत्तिमध्ये निवेश्यतामिति वाच्यम् । श्रुत्यर्थबाधापादकलाघवस्याप्रयोजकत्वात्। वेदस्थले विशिष्टान्वयस्यौत्सर्गिकत्वेऽपि श्येनस्य मरणजनकत्वे विध्यर्थबाधप्रसङ्गेन मरणं प्रति श्येनस्यान्यथासिद्धताया एवोपगन्तव्यतया तस्य जनकतागर्भहिनस्त्यर्थतावच्छेदकरूपशून्यताया अपि सूपपादत्वात् । न च यदि खङ्गाभिघातजनकादृष्टव्यवहितस्य श्येनस्य मरणेऽन्यथासिद्धत्वं तदा हन्तृकृतिजन्यव्यापारोऽपि तत्रान्यथासिद्धः स्यात् । यश्च व्यापारो मरणेऽव्यवहितसाधनं तत्र तद्धेतुः कृतिरेवान्यथासिद्धेति मरणकारणव्यापारकारणकृतिमत्त्वंन कस्यापि हेतुः स्यादिति वाच्यम् । तण्डुलविक्लित्यादिरूपफलव्यवहितस्यापि तुषादिप्रक्षेपस्य तत्करणदशायां पचतीत्यादिव्यवहारानुरोधेन यथानन्यथासिद्धत्वे तथा खगप्रक्षेपादिकरणदशायां हन्तीति व्यपदेशानुरोधेन तत्र व्यवहितस्यापि मरणेऽनन्यथासिद्धत्वमवश्याभ्युपेयमिति सामञ्जस्यात् । तण्डुलक्रयणदशायां पचतीत्याद्यभाववत् खड्गादिनिर्माणदशायां हन्तीत्यव्यवहारात्तद्वयापारो मरणेऽन्यथासिद्धतया न हिंसा । व्याघ्रमरणोद्देशेन कृतो यन्त्रार्पणादिर्यत्र तत्र दैवाद्वादिमरणेऽपि न हिंसारूपस्तथा न व्याघ्रादिहिंसारूपोऽपि तत्करणदशायां हन्तीत्यप्रयोगात्। अतथात्वेऽपि तन्मरणोद्देश्यकादृष्टद्वारकतन्मरणप्रयोजककृतिजन्यव्यापारस्यापि हिंसावत् पापजनकत्वादुक्तस्थले गोवधाभिसंधाने गोवधप्रायश्चित्ताचरणमित्यवधेयम् । एवं च चैत्रः पचतीत्यादौ विषयताघटितकर्तृत्वबोधनिर्वाहाय यथा कृतौ पाकादेरुपधायकत्वविषयित्वोभयसं