SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ २६८ व्युत्पत्तिवादः [ कारके बन्धेनान्वयः, विषयितायाः संबन्धत्वेऽपि उपधायकत्वनिवेश आवश्यकः। पाकाद्यनिष्पत्तिस्थले पचति पश्यतीत्यादिप्रयोगस्य प्रामाण्यवारकत्वात्। तथा चैत्रेण पच्यत इत्यादावपि तृतीयार्थकृतेजन्यत्वविषयित्वोभयसंबन्धेनान्वयो बोध्यः । कृतिजन्यत्वस्य तृतीयार्थत्वे जन्यत्वसंबन्धमध्य एव स्वनिरूपकविषयत्वं प्रवेशनीयम् । कृतिविषयत्वमेव वा तृतीयार्थः । स्वनिरूपकजन्यत्वं विषयतायाः संबन्धमध्येऽन्तर्भावनीयम् । काष्ठेन पचतीत्यादौ करणत्वं तृतीयार्थः। तच्च व्यापारवत्कारणत्वम् । व्यापारे कर्तृव्यापाराधीनत्वं निवेशनीयम् । अन्यथा कत्तुरपि करणतापत्त्या चैत्रश्चैत्रेण पचति, काष्ठं चैत्रेण पचतीत्यादिप्रयोगापत्तेः। न च कर्तुश्चेष्टादिरूपव्यापारस्य तदीयकृत्यादिरूपव्यापाराधीनतया तद्विशेषणदानेऽपि कर्तुः करणत्वं दुर्वारमेवेति वाच्यम् । स्वभिन्नत्वेन कर्तुविशेषणीयत्वात् । यत्रैकैव पाकादिक्रिया चैत्रेण काष्ठादिना मैत्रेण तुषादिप्रक्षेपेण निष्पाद्यते तत्र चैत्रस्तुमैत्रः काष्ठैः पचतीति प्रसङ्गः समभिव्याहृतकर्तृव्यापाराधीनत्वस्य तत्तत्करणव्यापारे भानमुपगम्य वारणीयः। न च समभिव्याहृतकत्रन्तर्भावेण तृतीयार्थत्वे कर्बसमभिव्याहारस्थले करणे तृतीयाया अप्रयोगापत्तिरिति वाच्यम् । तत्रापि हेताविति सूत्रेण हेतुतामात्रार्थकतृतीयासंभवाद् धनेन कुलं विद्यया यश इत्यादिवत् न हि तत्र करणे तृतीया क्रियायोगाभावात् । न चैवमुक्तस्थले चैत्रस्तुषेण पचतीति प्रयोगस्य हेताविति सूत्रबलादापत्ताविष्टापत्ति विनोत्तराभावात्समभिव्याहृतक–न्तर्भावस्य करणे स्वतन्त्रतृतीयानुशासनस्यैव वा वैयर्थ्यमिति वाच्यम् । उक्तस्थले पाके तुषहेतुकत्वाभावबाधेऽपि चैत्रस्तुषेण न पचति किन्तु दारुणैवेति प्रयोगोपपत्तये समभिव्याहृतकव॒न्तर्भावेण तृतीयायाः शक्तिकल्पनाया श्रावश्यकत्वात् । तद्ग्राहकतयैव करणे तृतीयानुशासनस्यावश्यकत्वात् । शरैः शातितपत्रोयमित्यादौ तृतीयायाः कारकविभक्तित्व एव
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy