SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ तृतीया ] जयाऽलङ्कृतः २६६ तदर्थान्वितार्थकशातितादिपदेन समासस्य साधुतानिर्वाहाच्च । न च तृतीयायाः समभिव्याहृतकञन्तर्भावेण करणत्वार्थत्वे तत्र समभिव्याहृतकत्रभावादकारकविभक्तित्वं करणे तृतीयानुशासनेऽपि दुर्वारमेवेति वाच्यम् । एतदनुरोधेन तत्र कर्तुरध्याहरणीयत्वात् । वस्तुतः समभिव्याहृतकर्तृव्यापाराधीनत्वें व्यापारवत्कारणत्वे च तृतीयायाः शक्तिद्वयम् । कञसमभिव्याहारस्थले व्यापारवत्कारणत्वमात्रं प्रतीयते। कर्तसमभिव्याहारस्थले च व्यापारे तद्वयापाराधीनत्वमपीति सामञ्जस्यम् । एवं हेत्वनुशिष्टतृतीयाया अकर्तयणे पञ्चमीत्यनेन बाधनात्करणत्वविवक्षायां धनवता ऋणेन बद्धोयमित्यत्र तृतीयाया उपपत्तये करणे तृतीयानुशासनस्यावश्यकता। करणत्वं च फलोपधानरूपमेव करणताघटकम् । अन्यथा कुठारादिकरणकच्छिदादौ दात्रादेरपि स्वरूपयोग्यतया करणत्वापत्तेः। लिजशारानुमितिकरणतामते धूमेन वह्निमनुमिनोतीत्यादौ धूमादिपदं तज्ज्ञानपरम् । व्याप्तिविशिष्टहेतुज्ञानस्य व्यापारस्तद्विशिष्टवैशिष्ट्यावगाही परामर्शः। स चात्ममनोयोगादिरूपानुमातृपुरुषव्यापाराधीन इति तस्य निरुक्तकरणत्वमवाधितमेव । धूमादिलिङ्गकवह्नयनुमितौ यत्र लिङ्गान्तराद्घटादिभानं तत्र तेन घटमनुमिनोमीति न प्रयोगः। अन्वयितावच्छेदकतद्विधेयकानुमितित्वावच्छेदेनैवान्वयितावच्छेदकधूमादिविषयकज्ञानत्वावच्छिन्नत्वेन भासमानस्य करणत्वस्य निरूपकत्वभानोपगमात्। निरूपकत्वं तु करणतामात्रस्य तृतीयार्थतावादिनां प्राचां मते संसर्गः। नव्यमते तु करणतानिरूपकत्वस्यैव नअर्थाभावे प्रतियोगित्वेनान्वयात्तावत्पर्यन्तस्य तृतीयार्थतया प्रकारतेत्यन्यदेतत् । परे तु लिङ्गज्ञानस्य करणत्वेऽपि धूमेनानुमिनोतीत्यादौ धूमादिपदं मुख्यार्थमेव हेताविति सूत्रेण तत्र हतीया । हेतुत्वस्य कारणतावच्छेदकसाधारणप्रयोजकत्वरूपस्य तत्र विवक्षितत्वात् । जन
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy